#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00347 Uniform title: vijñānabhairava with commentary Kaumadi Commentator : ānandabhaṭṭa Editor : Pandit Mukunda Rama Shastri Description: KSTS Series volume 9 Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: June 26, 2016 Publisher : Kashmir Series of Texts and Studies Publication year : 1936 Publication city : Jammu and Kashmir State Publication country : India #################################################### ओं नमश्चिद्भैरवात्मने शंकराय अथ विज्ञानभैरवः श्रीमद्भट्टानन्दविरचितविज्ञानकौमुदीटीकोपेतः | श्रीविद्यां श्रीकण्ठमूर्तिं महेशं सोमानन्दं भूतिराजोत्पलेशौ | कालेनास्तंयातशिवागमानां प्रोद्धृत्यै ये मर्त्यलोकेऽवतीर्णाः || १ || नामं नामं तत्पदाम्भोजरेणुं वाक्कायान्तर्वृत्तिभिर्नुत्तपङ्के | चित्तादर्शे मादृशा दृष्टतत्त्वा- वेशाः शोभन्तेऽनिशं सत्सदःसु || २ || (युगलकम्) श्रीलक्ष्मणाभिनवगुप्तमुखांस्त्रिकार्थ- तत्त्वानुशासनमहाम्बुधिशीतरश्मीन् | ध्यात्वा गुरूञ्जडहृदब्जविकासनोद्य- द्भास्वत्प्रभान्वितिमिरीकृतविश्वमार्गान् || ३ || शर्वाननाम्बुजविनिःसृतधारणानां गूढायनेऽपरविभानवलोकनेन | संरच्यते प्रतिपदं स्खलतापि तावद्- विज्ञानभैरवनये पददीपिकेयम् || ४ || (युगलकम्) प्. २) तदिह शास्त्रकृत्स्वयं भैरवः नीलपीतादिविचित्राभिरान्तरवाह्यस्वरूपाभिः तत्तदर्थक्रियाभिः स्वात्मानमाच्छाद्य ततश्च सूर्यमरीचिनिकरवत् बहिर्निःसृता भक्तजना एतज्ज्ञानमार्गद्वारा स्वात्मस्वरूपोपलब्ध्या पुनः प्रविशन्तु तदैक्यमुपयान्तु च इति प्रयोजनमुद्दिश्य स्वविज्ञानस्फारज्ञान-क्रियादिशक्तिद्वारा प्रष्टृरूपात्मना आह श्रीभैरव्युवाच | इत्यादि श्रुतं देव मया सर्वं यामलादिषु भाषितम् | त्रिकभेदमशेषेण सारात्सारविभागशः || १ || अद्यापि न निवृत्तो मे संशयः परमेश्वर | किं रूपं तत्त्वतो देव शब्दराशिकलात्मकम् || २ || किं वा नवात्मभेदेन भैरवे भैरवाकृतौ | त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम् || ३ || नादबिन्दुमयं वापि किं चन्द्रार्धनिरोधकम् | चक्रारूढमनच्कं वा किं वा शक्तिस्वरूपकम् || ४ || परापरायाः सकलमपरायाश्च वा पुनः | पराया यदि तद्वत्स्यात्परत्वं तद्विरुध्यते || ५ || नहि वर्णविभेदेन देहभेदेन वा भवेत् | परत्वं निष्कलत्वेन सकलत्वेन वा भवेत् || ६ || प्. ३) प्रसादं कुरु मे नाथ निःशेषं छिन्धि संशयम् | यत्र यत्किंचित् यामलादिषु शिवशक्तिसंघट्टनात्महेतुषु शास्त्रेषु ब्रह्मविष्णुरुद्रभैरवाख्ययामलेषु तदाख्येषु आगमेषु यत्किंचित् भवन्मुखात् श्रुतं तदैक्योपपत्त्या श्रुतपूर्वमेवास्ति दर्पणप्रतिबिम्बितन्यायेन तदनतिरिक्तं तदतिरिक्तं वा आन्तरतश्चैक्यतया बाह्यतश्च त्रिकभेदनरशक्तिशिवात्मकतया वा इत्यनेनासाधारणतया साधारणतया च श्रुतं श्रुतपूर्वमेवास्ति | इदानीमपि मम संदेहो न निवर्तते | मम भैरवीस्वरूपेण मायादिशक्तिस्वरूपे तदाश्यानतया तत्स्वरूपतादात्म्यात् मम भैरवीति नाम गीयत इत्यर्थः | तस्या मम न संदेहनिवृत्तिः - इदानीमपि न मम त्वदैक्योपपत्तिः संजातेति भावः | स्वात्मभित्तिसंलग्नत्वेन तदुल्लासाद्विश्वभत्रीं विश्वमयत्वेनैव सर्वत्र स्फुरणात्तद्धियमाणा वा संसारभीरूणामभयप्रदत्वेन हितकर्त्री भिया संसारत्रासेन रवतां जनितपरामर्शरूपाक्रन्दवतां हृद्भूमौ स्फुरन्ती वा इत्यादि निरुक्तनिर्दिष्टार्था भैरवी इत्युच्यते | तदेतत्सर्वम् प्रश्नोत्तरतत्त्वनिर्णयं भैरवीभैरवयोः सामरस्यात्मसंघट्टयामलस्वरूपप्रतिपादनं च तन्त्रालोकपरात्रिंशिकादौ वितत्य प्रोक्तं नास्माभिरिह वितन्यते रहस्यतस्करताप्रसङ्गात् | प्रकृतमनुसरामः - तस्य चानुत्तररूपस्य किं रूपं तत्त्वतः सत्यतः तदेव वदेति भावः | तत्र किं शब्दराशिकलात्मकं शब्दब्रह्मात्मकं शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति | इति | अथ वा अकारादि-क्षकारान्तशब्दतया अहमिति स्वरूपतया च वा अ क्ष इत्यात्मतया चेति किं वा नवतत्त्वात्मतया नववामादिशक्तिस्वरूपतया च भैरवे सच्चिदानन्दलक्षणपूर्णाहं- प्. ४) भावस्वरूपभूते भैरवाकृतौ पञ्चकृत्यस्वभावभूते चित्तत्त्वे वा नरशक्तिशिवात्मना त्रिशिरोभेदभिन्नं वा तत् तत्त्वं मातृमानमेयादिव्यापारत्रयात्मना वा इच्छादिशक्तित्रयव्यापारात्मना च वा नादबिन्दुमयेन शिवशक्त्यात्मकशब्दप्रत्ययरूपज्ञानक्रियाशक्त्यात्मना वा प्रणवाङ्गामाख्यार्धचन्द्रनिरोधात्मकव्यापारेण वा षट्पत्रादिचक्रस्थितं किंचित्तत्त्वं कुण्डलिन्याकृतिसार्धत्रिवलयस्फुरितं वा अकारादिक्षकारान्तचक्रारूढस्वभावम् अहमिति स्फुरणं वा अनच्कम् अकारादिषोडशस्वरराहित्येन ककारादिक्षकारान्तरूपं क् ख् ग् घ् ङ् इत्यादि स्वरूपं वा अथ च ओं नमः श्रीविद्यापादुकाभ्यः इत्येवं स्वरव्यञ्जनसंयुक्तं रूपम् उच्चारवर्जितं निष्कलं रूपम् अ उ म् न् अ मः ऽऽ र् ई व् इ द् य आ प् आ द् उ क् आ भ् यः इत्येवं रूपं वा तत् सर्वं वद वा पराया वाचः स्वरूपं वा अपराया वाचः स्वरूपं वा परापराया वाचः स्वरूपमस्ति ? स्वातन्त्र्यशक्तिरेव हि परा सैव क्रमं स्रष्टुमिच्छन्ती अपरा सैव च क्रमरूपा सती परापरेति कथिता | तथा च तन्त्रालोके स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः | तदेव देवीत्रयमन्तरास्ता- मनुत्तरं मे प्रथयत्स्वरूपम् || इत्यादिना | इत्येवमपरायाः वा परापरायाश्च स्वरूपस्य तादात्म्यात् पराया अपि यदि तद्वदेव स्यात् परत्वं तदिविरुध्येत | परापरापराभेदयोर्भेदोपपत्त्यां तत्राभेदस्वभावात् तत् परत्वं परास्वरूपे विरुध्येतेति तथा परापरापरास्वरूपयोर्हि सकलमेव वेद्यराशिपतितं विरुध्येत परायामिति भावः | अत्र परायां तदभे- प्. ५) ओद्पपादनादिति विरुद्धमेतत् न च ब्राह्मणक्षत्रियवैश्यशूद्रादिभेदेन न च देहभेदेन वा न च सुरनरतिर्यगादीनां नानाशरीररचनया तत्परत्वं निष्कलत्वेन सकलत्वेन वा भवेत् ? - इत्येवं वाक्कायमनसामेकीभावनया मम प्रसादं कुरु प्रसाददृष्टिं ददस्व किमिदं किमिदमित्यादिभावनया सर्वं विहाय एककोटिस्पर्शनात् परौन्मुख्यत्यागात् प्रमेयपरिहारात् वा प्रमातृतत्त्वाहंभावनया वा यत्किंचित् प्रमातृतत्त्वं तदेवोपपादयेति भावः | यच्च मम हृदि संशयः किमयम् किमयम् किमिदं किं वा इदम् किमन्यथा इत्यादि भेददशापन्ने निर्णयं वद - एकमेव यत् प्रमातृतत्त्वं स्वप्रकाशं तदेव मे दर्शय येन दर्पणप्रतिबिम्बितन्यायेन स्वात्मनि सर्वस्यास्यानतिरिक्तताप्रसङ्गात् अभेदोपपत्त्या अहमिति स्वरूपविश्रान्तेः सर्वमिदं मत्स्वरूपमिति निर्णयः स्यात् | प्रकर्षेणासादनं प्रसादः भेदापसरणेनाभेदोपपत्त्या स्वात्मैक्यताप्रतिपादनयुक्तिं विरचयेति तात्पर्यम् || १-६ || तदेवं स्वाभिन्नस्वसंविद्भैरवीरूपेणानुयुक्तस्य तत्त्वविषयागमस्य निर्णायकपदस्थः स्वयं परमेश्वरः सिद्धान्तोपदेष्टा भैरव उवाच इत्यादिना तत्र भैरवशब्दार्थस्तदभिन्नस्वरूपत्वेन निर्दिष्टभैरवीशब्दे प्राङ्निर्वाहितः अथ च भैर्भीमादिभिरवति इति भैरवः अहमिति स्फुरणात् इदन्ताया विनाशात् आश्यानस्येव हिमघृतादेरिति भावः | उवाचेति स्वाभिन्नस्वरूपां संविच्छक्तिमभिमुखीकृत्य प्रतिशृणोति | साधु साधु त्वया पृष्टं तन्त्रसारमिदं प्रिये || ७ || प्. ६) गूहनीयतमं भद्रे तथापि कथयामि ते | यत्किंचित्सकलं रूपं भैरवस्य प्रकीर्तितम् || ८ || तदसारतया देवि विज्ञेयमिन्द्रजालवत् | मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम् || ९ || ध्यानार्थं भ्रान्तबुद्धीनां क्रियाडम्बरवर्तिनाम् | केवलं वर्णितं पुंसां विकल्पनिहतात्मनाम् || १० || तत्त्वतो न नवात्मासौ शब्दराशिर्न भैरवः | न चापि त्रिशिरा देवो न च शक्तित्रयात्मकः || ११ || नादबिन्दुमयो वापि न चन्दार्धनिरोधकः | न चक्रक्रमसंभिन्नो न च शक्तिस्वरूपकः || १२ || अप्रबुद्धमतीनां हि चैता बालविभीषिकाः | मातृमोदकवत्सर्वं प्रवृत्त्यर्थमुदाहृतम् || १३ || दिक्कालकलनातीता देशोद्देशाविशेषिणी | व्यपदेष्टुमशक्या सा न कथ्या परमार्थतः || १४ || अन्तःस्वानुभवानन्दा विकल्पोन्मुक्तगोचरा | यावस्था भरिताकारा भैरवी भैरवात्मनः || १५ || तद्वपुस्तत्त्वतो ज्ञेयं विमलं विश्वपूरणम् | एवंविधे परे तत्त्वे कः पूज्यः कश्च तृप्यति || १६ || प्. ७) एवंइधा भैरवस्य यावस्था परिगीयते | सा परापररूपेण परा देवी प्रकीर्तिता || १७ || शक्तिशक्तिमतोर्यस्मादभेदः सर्वदा स्थितः | अतस्तद्धर्मधर्मित्वात्परा शक्तिः परात्मनः || १८ || न वह्नेर्दाहिका शक्तिर्व्यतिरिक्ता विभाव्यते | केवलं ज्ञानसत्तायां प्रारम्भोऽयं प्रवेशने || १९ || शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना | तदासौ शिवरूपी स्याच्छैवी मुखमिहोच्यते || २० || यथालोकेन दीपस्य किरणैर्भास्करस्य वा | ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवस्य च || २१ || हे देवि यत् त्वया पृष्टं तत् साधु साधु परमेष्टत्वात् पुनरुक्त्या साधु साधु निर्देशः यत् त्वया तन्त्राणां निश्चयानां सारं पृष्टं तत् त्वया गूहनीयं स्वात्मनि अभेदेन ध्यातव्यमिति भावः न तु वाचा वैखर्यादिना ततोऽपि अहमपि वदामि नान्यथा | यच्च भैरवस्य द्वैविध्येन सकलं निष्कलं च रूपं प्रसिद्धमेतत्सकलं जगद्रूपं नीलानीलघटादिनानावैचित्र्येण तत् सर्वं गन्धर्वनगरवदिन्द्रजालतुल्यमिति शेषः - भुक्त्वा पीत्वा सुखमहमस्वाप्समित्यत्र स्वप्नोपमदृष्टतुल्यं गन्धर्वनगरतुल्यं चेति - तथा अप्रबुद्धमतीनां भ्रान्तमतीनां कर्मप्रधानफलाभिसन्धिवर्तिनां स्थूलध्यानयोगार्थम् अहं विष्णुं यजामि अहं गणपतिं यजामीति स पुत्रं दास्यति प्. ८) मह्यम् इति विकल्पनिहतात्मनां पुंसां वर्णितम् | तत्त्वतो न नवात्मासौ - नवतत्त्वस्वरूपः न वा वामादिनवशक्तिस्वरूपः न चापि नरशक्तिशिवात्मा न वा इच्छाज्ञानक्रियाशक्तित्रयात्मा च न च शिवशक्तिस्वरूपः नादः शक्तिः बिन्दुश्च शिव इति शब्दप्रत्ययरूपं ज्ञानक्रियात्मकं वा न च अमाख्यार्धचन्द्रनिरोधात्मकं च प्रणवस्य न च षट्चक्रादिभेदगं कुण्डलिन्यादिरूपेण वा - अकारादिक्षकारान्तवर्णचक्रग-अहमिति स्वरूपं न वा कुण्डलिन्यादिशक्तिस्वरूपभाक् - परं तु मूढमतीनाम् एता बालविभीषिकाः अभिनिवेशादिप्रशमाय बालो हि विभीषिकाभिर्लाल्यत एव स्वमात्रा अथ चौषधादिभक्षणार्थं स्वमात्रा मोदकं वा शर्करां दास्यामीति लाल्यते | एवं सा परावस्था दिक्षु कालेषु भूतादिषु कलनातीता या आसीत् सास्ति भविष्यति चेति दूरासन्नादिनानात्वेन अविशेषिणी उपदेष्टुमशक्यापि तव उपदिशामिति शेषः | पूर्णाहन्ता स्वप्रकाशैकस्वरूपा निर्विकल्पपरमार्था च पूर्णस्वरूपस्य भैरवस्य या भरिताकारावस्था अहमिति विश्रान्तिमयी तदेव भैरवं वपुर्विज्ञेयमिति भावः | एवमस्मिन् भैरवे तत्त्वे कः पूज्यः को वा तृप्तः वा तृप्यति | एवमनेन रूपेण परावस्था भैरवस्य प्रकीर्तिता | यतश्चानयोः शक्तिशक्तिमतोरभेदस्तस्मात् इयं परा शक्तिरिति कथ्यते | अत्र च दृष्टान्तोऽपि - यथा वह्नेर्दाहिका शक्तिर्न भिन्ना तथेयं शक्तिरपि परा इति एतन्मुखेन भैरवसांमुख्यं स्यादिति भावः | पुनरपि च दृष्टान्तोऽत्र - यथा हि वक्त्रेणैव अयमिति लभ्यते तथा शक्त्यैव शिवोऽयमिति व्यपदेशः | अपरोऽपि च दृष्टान्तः - यथा दीपप्रकाशेन वा सूर्यालोकेन च दिग्विभागादि ज्ञायत एव एवं शक्त्या शिवावभसनमिति सिद्धम् || ७-२१ || प्. ९) श्रीभैरवी उवाच देवदेव त्रिशूलाङ्क कपालकृतभूषण | दिग्देशकालशून्या च व्यपदेशविवर्जिता || या शक्तिर्भरिताकारा भैरवस्योपलभ्यते | कैरुपायैर्मुखं तस्याः परा देवी कथं भवेत् || यथा सम्यगहं वेद्मि तथा ब्रूहि मम प्रभो || इच्छाज्ञानक्रियात्मशक्तित्रय-भरितस्वरूपसत्तया उपलक्षित ? विश्वस्य च संहारेण स्वात्मनि तत्स्थित्या अस्थिशेषतया विश्वस्य धारणं कपालपाणित्वं सिद्धमीश्वरस्य | दिक्षु दशसु देशे काले भूतादौ शून्या तदविभागा परेति नाम्ना लक्ष्यते तन्मुखं तद्दर्शनं च केनोपायेन भवेदिति शेषः | यथा चाहं त्वत्स्वरूपतया भवामि त्वदभेदोपपत्तेः तथैव मे ब्रूहि - तत्रैव प्रवेशय इति भावः || श्रीभैरव उवाच ऊर्ध्वे प्राणो ह्यधो जीवो विसर्गात्मा परोच्चरेत् | उत्पत्तिद्वितयस्थाने भरणाद्भरितस्थितिः || २४ || ऊर्ध्वे द्वादशान्ते प्राणः प्राणनरूपः जीवनाख्यः चित्तवृत्तिविशेषः संस्थाप्यः अधश्च - हृदि हृदयस्थाने जीवोऽपानः - जीव्यतेऽनेन इति जीवः भक्षणपानादेरधोमार्गप्रसरणात् जीव इति उच्यते तदुपाधिवान् अत एव जीव इति विसर्गात्मा अन्तर्बहिर्भावकरणरूप आत्मा यस्य तेनापि परैव उच्चारमायाति अहमैति अन्तश्चकारूढा एतयोर्द्वयोर्विभेदापत्त्या अहमिति प्रकाशनात् प्. १०) उत्पत्तौ द्वादशान्ते द्वितीये हृदि च धारणात् | तत्र स्थित्या भरितस्थितिः स्यादेव इति सर्वोपाधिविस्मरणात् अहमिति विमर्शवान् स्यात् इति संबन्धः | इति प्रथमा धारणा || २४ || अथ द्वितीयामाह मरुतोऽन्तर्बहिर्वापि वियद्युग्मानुवर्तनात् [युग्मानिवर्तनात् भैरव्या भैरवस्य इति च पाठः] | भैरवं भैरवस्येत्थं भैरवि व्यज्यते वपुः || २५ || प्राणापानरूपस्य मरुतोऽन्तर्बहिर्वियद्युग्मे द्वादशान्ते हृदये चातुवर्तनात् - अनुन्मेषनिमेषणात् | हे भैरवि ? भैरवस्य परमात्मनः वपुः शरीरं स्वरूपं व्यज्यते प्रकाशत एव || २५ || तृतीयां धारणामाह न व्रजेन्न विशेच्छक्तिर्मरुद्रूपा विकासते [विकासिते भैरवरूपता इति च पाठः] | निर्विकल्पतया मध्ये तया भैरवरूपधृत् || २६ || हृदि यः प्राणः स तु न व्रजेत् तत्स्थानात् नापि विशेत् यत्रैवास्ति निर्विकल्परूपस्तत्रैवास्तु अस्पन्दात्मा | एवमेव द्वादशान्तेऽपि स्पन्दास्पन्दराहित्येन निर्विकल्पसमाधौ तन्मध्ये भैरवरूपाभिव्यक्तिः || २६ || चतुर्थी धारणां निरूपयति कुम्भिता रेचिता वापि पूरिता वा यदा भवेत् | तदन्ते शान्तनामासौ शक्त्या शान्तः प्रकाशते || २७ || प्. ११) शास्त्रमार्गानुसारेण कुम्भकं रेचकं वा पूरकं विधाय तत्तदभ्यासपरिशीलनेन च चक्रभ्रमिवत् शान्तवेगानुभवेन प्रकाशमात्रावस्थोदये परापरस्वभावः प्रकाशत एव | तथा च तिष्ठति संस्कारवशात् चक्रभ्रमिरिव धृतशरीर इत्यन्तेन प्रकाशः प्रकाशत एव | प्रत्यभिज्ञायां चैतत्प्रपञ्चितम् इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता | या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् || इत्यादिना || २७ || इदानीं पञ्चमीमाह आ मूलात्किरणाभासां सूक्ष्मात्सूक्ष्मतरात्मिकाम् | चिन्तयेत्तां द्विषट्कान्ते शाम्यन्तीं भैरवोदयः || २८ || आ मूलात् हृदयात् किरणैर्भासमानां चन्द्रार्कबिम्बवत् भासनस्वभावां क्रमात् क्रमं तनुतां तनुतां श्रयन्तीं च अत एव च सूक्ष्मात् सूक्ष्मतरां नामरूपातीतां द्विषट्कान्ते द्वादशान्ते संचिन्त्य सुसूक्ष्मतमस्यापि ध्येयाकारस्य गलनात् भैरवरूपो भवेदिति शेषः तां च शाम्यन्तीं सतीं संत्यज्येति भावः || २८ || एतदेव दर्शयति षष्ठ्या उद्गच्छन्तीं तडिद्रूपां प्रतिचक्रं क्रमात्क्रमम् | ऊर्ध्वं मुष्टित्रयं यावत्तावदन्ते महोदयः || २९ || कन्दादिब्रह्मरन्ध्रान्तं क्रमात् क्रमेण उद्गच्छन्तीं तडिदाकारसंनिभां प्रोज्ज्वलद्रूपां तद्रूर्ध्वं च चतुरङ्गुलपरिमितां मुष्टिं यावद्- प्. १२) द्वादशान्तं तावदन्ते महोदयः मुष्टित्रयशेषेण महोदयः अहमित्यवमर्शः स्यादेवेति | तथा च श्रीभगवता गीतम् अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते | इत्यादिना | तथा च सर्वो ममायं विभव इत्येवं परिजानतः | विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता || इत्यादिना प्रत्यभिज्ञायामपि || २९ || सप्तमीमाह क्रमद्वादशकं सम्यग्द्वादशाक्षरभेदितम् | स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वा ततः [मुक्त्वान्तत इति पाठः] शिवः || ३० || जन्माग्रमूलकन्दनाभिहृत्कण्ठतालुभ्रूमध्यललाटरन्ध्रशक्तिव्यापिन्या ख्यं यत् चक्राणां द्वादशकं द्वादशस्थाननामभिः प्रसिद्धं तच्च आदौ ध्यानेन स्फुटं ततश्च स्पन्दमानं ततोऽपि ज्योतीरूपतां प्राप्तं सूक्ष्मं परमित्यभिधीयते तदभिधानेन च सर्वजित्त्वात् सर्वत्रावभासकः शिव एव प्रकाशते परमार्थतः || ३० || इदानीमष्टमीमाह तथापूर्याशु [तयापूर्येति पाठः] मूर्धान्तं भङ्क्त्वा भ्रूक्षेपसेतुना | निर्विकल्पं मनः कृत्वा सर्वोर्ध्वे सर्वगोद्गमः || ३१ || प्. १३) जन्मादिचक्रेभ्य ऊर्ध्वोर्ध्वक्रमेण प्राणेन मूर्धान्तं द्वादशान्तं पूरयित्वा उपारोहितयोर्भ्रुवोर्भङ्गेन सेतुनेव वारिप्रवाहं मनो भङ्क्त्वा त्यक्तचापलं विधाय अत एव निर्विकल्पं तन्मनः कृत्वा सर्वोर्ध्वे द्वादशान्तादपि चोर्ध्वे परमाकाशे सर्वव्यापकत्वं स्यादेव इति निश्चयः || ३१ || इदानीं नवमीमाह शिखिपक्षैश्चित्ररूपरिमण्डलैः शून्यपञ्चकम् | ध्यायतोऽनुत्तरे शून्ये प्रवेशो हृदये भवेत् || ३२ || यथाहि शिखिपक्षैर्मयूरपुच्छैश्चित्ररूपैरनेकवर्णैरिव पञ्चेन्द्रियमण्डलानि चित्रवत् भासमानानि चित्रमेतत् शून्यमेव इति ध्यायतोऽनुत्तररूपे शून्ये परमधामनि प्रवेशः परमा गतिः स्यादिति निश्चयः | गन्धर्वनगरतुल्यं चित्रमिवेदम् इति निश्चयेन परमार्थसिद्धिः स्यादेवेति भावः || ३२ || इदानीं दशमीमाह ईदृशेन क्रमेणैव यत्र यत्रापि चिन्तयेत् [चिन्तना इति पाठः] | शून्ये कुड्ये परे पात्रे स्वयं लीना वरप्रदा || ३३ || एवं क्रमेण ध्यायतः परे स्वात्मनि वा अन्यत्र कुड्यादौ वा परपात्रे च एकाग्रभावनादार्ढ्यावाप्तौ मरुच्छक्तिः स्वयं लीना स्यात् - यत्र तत्र परपदपरामर्शैक्यभावेन अहंरूपतादात्म्यताभिमानः स्यादित्यर्थः | तथा च श्रीस्पन्दे प्. १४) यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् | तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः || तेन शब्दार्थचिन्तासु न सावस्था न या शिवः | भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः || इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् | संपश्यन्सततं युक्तो जीवन्मुक्तो न संशयः || इत्यादिना निरूपितम् || ३३ || एकादशीमाह कपालान्तर्मनो न्यस्य तिष्ठेन्मीलितलोचनः [तिष्ठन्मीलितेति पाठः] | क्रमेण मनसो दार्ढ्याल्लक्षयेल्लक्ष्यमुत्तमम् || ३४ || कपालकुहरान्तः - शिरःकवाटमध्ये मीलितलोचनोऽन्तःसंकुचितहृदयादिबाह्यान्तरिन्द्रियवर्गः सुषुम्नायामस्तङ्गतप्राणापानादिचारेण तद्दार्ढ्यात् यत् लक्ष्यमस्ति तदेव लक्षयेत् घटोऽयमितिवत् प्रत्यक्षत उत्तमं ज्योतिः पश्यतीत्यर्थः || ३४ || द्वादशीमाह मध्यनाडी मध्यसंस्था बिससूत्राभरूपया | ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते || ३५ || बिसतन्तुतनीयसी इति लक्षिताया ध्यातमन्तर्व्योम यस्यास्तादृश्या भैरव्याः शून्यं रूपं ध्यातं सत् दृष्टिमात्रतो देवः स्वयंप्रकाशः प्रकाशत इति भावः | स्पन्दे च प्. १५) तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे | सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः || इत्यादिना वितत्य दर्शितम् || ३५ || त्रयोदशीमाह कररुद्धदृगस्त्रेण भ्रूभेदाद्द्वाररोधनात् | दृष्टे बिन्दौ क्रमाल्लीने तन्मध्ये परमा स्थितिः || ३६ || कराभ्यां रुद्धानि दृगुपलक्षितानि मुखरन्ध्राणि येन एतादृशस्य योगिनो भ्रूमध्यग्रन्थिविदारणात् बिन्दौ दृष्टे क्रमात् एकाग्रताप्रकर्षेण लीने तन्मध्ये परमा स्थितिः - परभैरवाभिव्यक्तिः स्यादित्यर्थः || ३६ || चतुर्दशीमाह धामान्तःक्षोभसंभूतसूक्ष्माग्नितिलकाकृतिम् | बिन्दुं शिखान्ते हृदये लयान्ते ध्यायतो लयः || ३७ || धाम्नो लोचनवर्तिनस्तेजसोऽन्तःक्षोभेण अत्यन्तनिष्पीडनादिना संभूतं | यद्वा धाम्नो दीपादेस्तेजोमयस्यान्ते निर्वाणताप्राप्तिसमये यः क्षोभश्चाञ्चल्यं ततः संभूतं सूक्ष्माग्नितिलकाकृतिं बिन्दुं ध्यायतः शिखान्ते द्वादशान्ते हृदये गलितलयान्तरे लयः तदैक्योपपत्तिर्भवेत् | गलिते विकल्पे तदवसाने च परमतेजस्तत्त्वसमावेशः स्यादित्यर्थः || ३८ || प्. १६) पञ्चदशीमाह अनाहतेऽपात्रकर्णेऽभग्नशब्दे सरिद्द्रुते | शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति || ३८ || यत् दशधोपलक्षितं शब्दब्रह्म तत्रनिष्ठत्वेन परं ब्रह्मावाप्तिः | शब्दे कथंभूते न वहिः प्रसरणरूपैर्नीलादिभिराहते व्याप्ते अत एव च न पात्रे कर्णौ यस्येति स्थूलशब्दादिव्यतिरिक्तत्वात् अतश्च अभग्नशब्दे न भग्नः शब्दो यस्य अनाहते शब्दे नादभट्टारकशब्दब्रह्मरूपे सरिद्द्रुते च वेगवाहिनि तत्र च दृढनिष्ठः सन् ब्रह्मत्वमाप्नुयादिति भावः || ३८ || षोडशीं धारणामाह प्रणवादिसमुच्चारात्प्लुतान्ते शून्यभावनात् | शून्यया परया शक्त्या शून्यतामेति भैरवि || ३९ || प्रणवादीनां लघूच्चारात् तदनन्तरं च दीर्घोच्चारात् तदनन्तरं प्लुतोच्चाराच्च कुक्कुटरुतवत् व्याप्तेः तदनन्तरं विजित्य तां शून्यावस्थालम्बनेन शून्यातिशून्योच्चारेण शून्यतामुल्लङ्घ्य अन्तर्मुखताभ्यासात् परमा गतिः करबिल्ववत् संभाव्या नान्यथा || ३९ || सप्तदशीमाह यस्य कस्यापि वर्णस्य पूर्वान्तावनुभावयेत् | शून्यया शून्यभूतोऽसौ शून्याकारः पुमान्भवेत् || ४० || प्. १७) पूर्वं शिक्षा ततस्तदनुभवः ततोऽपि गुरुप्रसादादिना तदन्ते तन्निश्चयः ततोऽन्तर्नाडीचक्रादिपरीक्षा ततश्च शून्यातिशून्ययोजनया ओमिति निश्चित्य तं च परब्रह्मणि ततश्च शून्यातिशून्यतामेति - सर्वमिदं गन्धर्वनगरादितुल्यवृत्तान्तं यदन्यत् तद्ब्रह्म इति बुद्ध्या अतिरिच्यते || ४० || अष्टादशीमाह तन्त्र्यादिवाद्यशब्देषु दीर्घेषु क्रमसंस्थितेः | अनन्यचेताः प्रत्यन्ते परव्योमवपुर्भवेत् || ४१ || शब्दानुरणनन्यायेन पानकचर्वणन्यायेन च पश्चात् अनुभाव्य किमिदं किमत्र प्रयोजनं वा दे-व-द-ता इति प्रहरप्रहरोच्चारिता वर्णा नानुभवमधिरोहन्ति पश्चात् देवदत्त इति सामीप्यतया उच्चारात् अस्ति किंचिदिति तत्पश्चात् ज्ञानान्तरात् ज्ञानस्य संभवेन देवदत्तो नाम कश्चित् ब्राह्मण इति तदनन्तरं च पौर्वः पाश्चात्यः दाक्षिणः औत्तरो वा इति तदनन्तरं वेदाध्ययनशीलः तदनन्तरमयं वामनदत्तपुत्रः तदनन्तरं च सुखदत्तभ्राता तदनन्तरं च पृथूदर्याः पुत्रः इति जातिनामादियुक्ततया उपलभ्यत एव | तद्वत् तन्त्र्यादिवाद्यभूतेषु क्रमेषु अनन्यचेताः लयत्व##- ब्रह्मैव भवति - परव्योमतनुः स्यादिति भावः शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति इति प्रागुक्तदिशा | अथ वा शब्दब्रह्मातिवर्तते इति || ४१ || प्. १८) इदानीमेकोनविंशीमाह पिण्डमन्त्रस्य सर्वस्य स्थूलवर्णक्रमेण तु | अर्धेन्दुबिन्दुनादान्तशून्योच्चाराद्भवेच्छिवः || ४२ || पूर्वोक्तनवात्मादेः वामादिशक्त्यादिना वा नवतत्त्वादेः अकारादि##- पाश्चात्यरूपमेव निश्चयेन निश्चित्य पर्यवसानेन शून्योच्चारात् शिवो भवेदिति भावः || ४२ || इदानीं विंशतितमीं धारणामाह निजदेहे सर्वदिक्कं युगपद्भावयेद्वियत् | निर्विकल्पमनास्तस्य वियत्सर्वं प्रवर्तते || ४३ || यदि निर्विकल्पमना एकाग्रमनाः स्यात् सर्वासु पूर्वादिदिक्षु वियदेव भावयन् - सर्वत एव शून्यतां भावयन् न नीलपीतादिकं किमप्यस्तीति शुक्ताविदं रजतम् इतिवत् अविषयम् इत्येवं भावनया परमशून्यः स्यादिति यतस्तस्य शून्यादिविकल्प एव | तथा च प्रत्यभिज्ञायामेतन्निर्दिष्टमस्ति चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः | देहे बुद्धावयः प्राणे कल्पिते नभसीव वा || प्रमातृत्वेनाहमिति विमर्शोऽन्यव्यपोहनात् | विकल्प एव स परप्रतियोग्यवभासजः || प्. १९) इत्यादिना यत्परं शून्यातिशून्यं शिवतत्त्वं तदेव ज्ञेयमिति भावः | यतश्च तत्रैव शून्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः | तेषां कार्ममलोऽप्यस्ति मायीयस्तु विकल्पितः || इति निर्धारितम् || ४३ || इदानीमपरां धारणामाह पृष्ठशून्यं मूलशून्यं युगपद्भावयेच्च यः | युगपन्निर्विकल्पत्वान्निर्विकल्पोदयस्ततः || ४४ || [पृष्ठशून्यं मूलशून्यं युगपद्भावयेश यः | शरीरनिरपेक्षिण्या शक्त्या शून्यमना भवेत् || पृष्ठशून्यं मूलशून्यं हृच्छून्यं भावयेत्स्थिरम् | युगपन्निर्विकल्पत्वान्निर्विकल्पोदयस्ततः || इत्यादिपाठः पद्यद्वयात्मा उद्योते मूलेऽस्ति | अनुमीयते च यदेतन्मध्यमं पादचतुष्टयं श्रीशिवोपाध्यायेर्व्याख्यातं च पुनरुक्ततयाधिकं संभवति अत एवास्मिन्पुस्तके वस्तुतोऽविद्यमानं स्यादिति | ] ऊर्ध्वाधो दक्षिणतोत्तरतः सर्वतोऽपि शून्यमेव ध्यात्वा सर्वं खल्विदं ब्रह्म | इति भावनया विचिन्त्य शिवतत्त्वं करस्थविल्ववत् आभाति इति नाश्चर्यम् || ४४ || अपरामाह तनूदेशे शून्यतैव क्षणमात्रं विभावयेत् | निर्विकल्पे निर्विकल्पो निर्विकल्पस्वरूपभाक् [निर्विकल्पं निर्विकल्पो निर्विकल्पे वा इति पाठः] || ४५ || प्. २०) शिवतत्त्वं विना न किमपि सर्वमेतत् चिद्विलासास्पदमाश्यानतया चित्रितमिव विभाति | तथा च सिद्धान्तमुक्तावल्यां पश्यामि चित्रमिव सर्वमिदं द्वितीयं तिष्ठामि निष्कलवदेक अनेकरूपः | आत्मानमद्वयमनन्तसुखैकरूपं स्मरामि दग्धरशनामिव सुप्रपञ्चम् || आश्चर्यमप्यनुभवामि करस्थबिल्व- तुल्यं शरीरमहिनिर्लुयनीव वीक्षे | एवं च जीवनमपि प्रतिभासनं च निःश्रेयसोऽधिगमनं च मम प्रसिद्धम् || इत्यादिना आम्नातमस्ति | इत्येवं गन्धर्वनगरादिवत् प्रसिद्धमप्रतिष्ठितम् इति सिद्धम् || ४५ || अपरामपि आह सर्वं देहगतं द्रव्यं वियद्व्याप्तं मृगेक्षणे | विभावयेत्ततस्तस्य भावना सा स्थिरा भवे || ४६ || शून्यव्याप्तं सर्वमिदं रज्जुभुजङ्गवत् असत्यस्वरूपसाध्यत्वाद्वा गन्धर्वनगरादिवत् इत्येवं धारणया यत् देहगतं मांसादि द्रव्यं तत् शून्यतया प्रसिद्धम् इति दृढभावनास्थित्या प्रकाशमानप्रकाशः स्यादित्यर्थः || ४६ || प्. २१) अपरमाहा देहान्तरे दिग्विभागं भित्तिमात्रं विचिन्तयेत् | न किंचिदन्तरे तस्य ध्यायन्न ध्येयभाग्भवेत् || ४७ || पञ्चभूतपञ्चीकरणयुक्त्या संबद्धं सत् शरीरमुद्भूतं यच्च स्थूलं विनश्यत्स्वभावं करिकर्णाग्रचपलं च इति नात्र स्थिरता आसीत् अस्ति स्याद्वा इति तथा दिग्विभागादि नास्ति बाह्यजहभित्तिमात्रमिदं दक्षिणपार्श्वम् इदं वोत्तरम् इत्यादिना तस्मात् असदिति समीक्षयेत् | प्रमाता च सदिति सन्निश्चयेन ज्ञानीत्युच्यते || ४७ || अपरामाह हृद्याकाशे निलीनाक्षः पद्मसंपुटमध्यगः | अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात् || ४८ || हृत्पद्मे बद्धबाह्याभ्यन्तरेन्द्रियचक्रः तत्पद्मपुटमध्यगश्च अत एवानन्यचेताः परं सौभाग्यमाप्नुयात् - बाह्यविषयोपरमात् आभ्यन्तरोदयः संभवेदित्यर्थः || ४८ || अपरामाह सर्वतः स्वशरीरस्य द्वादशान्ते मनोलयात् | दृढबुद्धेर्दृढीभूतं तत्त्वलक्ष्यं प्रवर्तते [त्वग्विभागं भित्तिभूतमिति ध्यायनध्येय इति च पाठः] || ४९ || प्. २२) दृढबुद्धेर्योगिनः दृढीभूतं प्राप्तैकाग्र्यं परप्रकाशरूपं तत्त्वलक्ष्यं प्रवर्तते द्वादशान्ते शून्यातिशून्ये मनसो लयात् वासनाक्षयात् | अथ वा मध्यधाम्नि सुषुम्नायां | तथा च सौषुम्नेऽध्वन्यस्तमितौ हित्वा ब्रह्माण्डगोचरम् इत्यादिना स्पन्दे विशदीकृतम् || ४९ || अपरामाह यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् | प्रतिक्षणं क्षीणवृत्तेर्वैलक्षण्यं दिनैर्भवेत् || ५० || एवमेव पूर्वोक्तेन प्रकारेण प्रशान्तचाञ्चल्यस्य असामान्यपरभैरवताभिव्यक्तिः स्यादेवेत्यर्थः || ५० || अपरामाह कालाग्निना कालपुरादुत्थितेन स्वकं पुरम् | प्लुष्टं विचिन्तयेदन्ते शान्ताभासः प्रजायते [कालपदादिति शान्ताभासस्तदा भवेदिति च पाठः] || ५१ || दक्षपादाङ्गुष्ठात् उत्थितेन कालाग्निना देहं दग्धं योगतो विभाव्य योगिनः चिन्मयमूर्तिमान् विभावसुः प्रकाशत इत्यर्थः || ५१ || पपरामाह एवमेव जगत्सर्वं दग्धं ध्यात्वा विकल्पतः | अनन्यचेतसः पुंसः पुंभावः परमो भवेत् || ५२ || प्. २३) एवमेवेति दक्षपादाङ्गुष्ठोद्भवकालाग्निरुद्रज्वालया सर्वं देहस्थं बाह्याभ्यन्तरं दग्धं विभाव्य निर्विकल्पचेतसः पुरुषार्थत्वं परोत्कृष्टतया भवेदिति शेषः || ५२ || अपरामाह स्वदेहे जगतो वापि सूक्ष्मसूक्ष्मान्तराणि च | तत्त्वानि यानि निलयं ध्यात्वान्ते व्यज्यते परा || ५३ || पृथिव्यादीनि पञ्चभूतानि तद्विकाराणि मांसास्थ्यादीनि यानि च सन्ति तेषां लयं - स्वस्वकारणेषु लीनतां ध्यात्वा पर्यन्ते परा देवी प्रकटा स्यात् मयूराण्डरसन्यायेन परा सर्वमेतदन्तः स्थित-मेव बहिः प्रकाशयेदिति भावः | अयमत्र तात्पर्यार्थः - सर्वभेदाभेदगलनात् पराप्रसादमन्त्रवान् परोदयः स्यादेवेति || ५३ || अपरामाह पीनां च दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे | प्रविश्य हृदये ध्यायन्मुक्तःस्वातन्त्र्यमाप्नुयात् || ५४ || प्राणशक्तिमादौ पीनाम् - अन्नपानादिभोजनदिशा पीनत्वं प्राप्तां ततोऽपि गुरूपदेशमार्गेण कुम्भकादिना सूक्ष्मां भवन्तीं ध्यात्वा ततस्तामेव हृदयादौ प्रावेश्य द्वादशान्ते वा ततः स्वतन्त्रपरमेश्वररूपः स्यादिति निश्चयः || ५४ || प्. २४) अपरामाह भुवनाध्वादिरूपेण चिन्तयेत्क्रमशोऽखिलम् | स्थूलसूक्ष्मपरस्थित्या यावदन्ते मनोलयः || ५५ || भुवनतत्त्वकलापदमन्त्रवर्णाख्यो यः षोढा वाच्यवाचकरूपोऽध्वा तस्याध्वनः स्थूलसूक्ष्मिक्यरूपताभ्यसनात् ततस्तन्त्रैव मनोलयात् पराकाष्ठावगतिरिति भावः | तथा च मालिनीविजये अध्वातीतो भवेच्छिवः इत्यादिनानुशिष्टमस्ति || ५५ || अपरामाहा अस्य सर्वस्य विश्वस्य पर्यन्तेषु समन्ततः | अध्वप्रक्रियया तत्त्वं ध्यात्वा शैवं महोदयः || ५६ || अध्वषट्केषु भुवनाध्वपर्यन्तेषु सामान्यतया विशेषतया वा न किमपि शिवतत्त्वं विना सारभूतम् इति विज्ञाय महोदयः - परमशिवावभासः स्यादित्यर्थः | एतदेव अध्वषट्कादि संत्यज्य जित्वा चेन्द्रियमण्डलम् | कारणैः कृतकृत्योऽसौ राजते सूर्यवद्भुवि || इत्यादिना मालिनीकल्पोत्तरेऽप्यादिष्टमस्ति || ५६ || अपरामाह विश्वमेतन्महादेवि शून्यभूतं विचिन्तयेत् | तत्रैव च मनो लीनं ततस्तल्लयभाजनम् || ५७ || प्. २५) एतत् सर्वं विश्वं चराचरभूतं न किञ्चित् गन्धर्वनगरादितुल्यम् अध्यासात्मकम् असदित्याद्याख्यं नामरूपादिहीनं मायागहनं च यदस्ति तत् स्वप्रकाशात्मकं सदिति लक्षितं च सारं लयभाजनं चेति भावः || ५७ || अपरामाह घटादिभाजने दृष्टिं भित्तिस्त्यक्त्वा विनिक्षिपेत् | तल्लयं तत्क्षणाद्गत्वा तल्लयात्तन्मयो भवेत् || ५८ || अन्तःसुषिरे घटादिवस्तुनि दक्षिणोत्तरपार्श्वादि त्यक्त्वा तत्र आकाशे विश्रान्तत्वात् परमशून्यातिशून्ये मनो लीनं विभाव्य परंब्रह्मसमाविष्टः सन् ब्रह्मैव संपद्यत इति भावः || ५८ || अपरामाह निर्वृक्षगिरिभित्त्यादिदेशे दृष्टिं विनिक्षिपेत् | विलीने मानसे भावे वृत्तिक्षीणः प्रजायते || ५९ || पर्वतादौ शून्ये मरुद्देशादौ वा तुङ्गादिविषयादौ वा दृष्टिमात्रं निक्षिप्य तत्तदालम्भनाभावात् गलिते मानसे क्षीणसमस्तवृत्तिः प्रजायते ##- अपरामाह उभयोर्भावयोर्ज्ञाने ज्ञात्वा मध्यं समाश्रयेत् | युगपच्च द्वयं त्यक्त्वा मध्ये तत्त्वं प्रकाशते || ६० || घटोऽयं पटोऽयं तटोऽयमित्यादिनानात्वेन वेद्यराशिपतितस्य सारं विहाय वा तन्मध्ये च ज्ञातृत्वावगमनं कृत्वा अत्र कश्चित् प्. २६) वेदकोऽस्तीति तेन च ज्ञातृज्ञानज्ञेयादिनानात्वेन अनानात्वं विधाय विभागकल्पनात्यागात् ऐकाग्र्यमेव प्रमातृतत्त्वाख्यं तत्त्वमसि इति वत् निर्विकल्पदशामासाद्य विभागत्यागात् ऐकाग्र्यतापत्तिरिति सुष्ठु प्रोक्तमिति || ६० || अथापरामपि आह भावे त्यक्ते [भावे न्यक्ते इति पाठः न्यक्ते अन्तर्हिते इत्यर्थः] निरुद्धा चिन्नैव भावान्तरं व्रजेत् | तदा तन्मध्यभावेन विकसत्यति भावना || ६१ || एकस्मिन् वस्तुनि स्वीकृते निरुद्धा चित् नैव भावान्तरं व्रजेत् अन्यद्वस्तुनि न व्रजेत् तत्र तन्मध्ये शून्यरूपस्थित्या भावना अतिविकसति अद्भुतफुल्लन्यायेन मनश्चातिविकासत्वं यायात् - ब्रह्मैव संपद्यत इत्यर्थः || ६१ || अपरामाह सर्वं देहं चिन्मयं हि जगद्वा परिभावयेत् | युगप्न्निर्विकल्पेन मनसः परमा [मनसा परमोदय इति पाठः] गतिः || ६२ || आ पादात् केशान्तं चिद्रूपं सर्वमिदं जगत् परिभावयेत् अक्रमेण च स्फुरच्चिच्चमत्कारव्याप्त्या मनसो गतिः परमा उत्कर्षरूपा गतिरस्तीति तात्पर्यम् || ६२ || अपरामाह सर्वं जगत्स्वदेहं वा स्वानन्दभरितं स्मरेत् | युगपत्स्वामृतेनैव परानन्दमयो भवेत् || ६३ || प्. २७) आनन्दादेव खलु इमानि भूतानि जायन्ते आनन्दे प्रवर्तन्ते आनन्द एव प्रलीयन्त इति इत्थं दृष्ट्या कृतकृत्यो भवेदिति भावः || ६३ || अपरामाह आयुद्वयस्य संघट्टादन्तर्वा बहिरन्ततः | योगी समत्वविज्ञानसमुद्गमनभाजनम् || ६४ || प्राणापानरूपस्य योजनात् हृदये द्वादशान्ते चान्तःप्रवेशनिर्गमने पर्यवसाने योगी प्रबुद्धः समत्वविज्ञानेन समुद्गमनभाजनं रहस्यस्थानपर्यवसायिप्राणापानादिगोचरः स्यादिति भावः तेन च परमसिद्धिभाग्भवेदित्यर्थः || ६४ || अपरामाह कुहनेन प्रयोगेन सद्य एव मृगेक्षणे | समुदेति महानन्दो येन तत्त्वं प्रकाशते || ६५ || विस्मापकाद्भुतमायादिप्रयोगेन अद्भुतप्रयोगमयः परमानन्दोदयः स्यादिति भावः अहमेव परो हंसः इत्यादिकया युक्त्या पिपीलिकास्पर्शमात्रात् परमोदयव्याप्तिरिति शेषः || ६५ || अपरामाह सर्वस्रोतोनिरोधेन [स्रोतोनिबन्धेनेति पाठः] प्राणशक्त्योर्ध्वया शनैः | पिपीलस्पर्शवेलायां प्रथते परमं सुखम् || ६६ || प्. २८) पञ्चेन्द्रियगुह्योपस्थरन्ध्रनिरोधेन आधारात् द्वादशान्तं यावत् ऊर्ध्वं क्रमेण वहन्त्या प्राणशक्त्या पिपीलिकास्पर्शमात्रात्प्रथते परमं सुखम् इत्येतद्भावनया अन्तर्मुखारामो भवतीत्यर्थः | द्वादशान्त आत्मविषयानुभवसमये पिपीलिकाया इव शनैः शनैः चरतः प्राणस्य यः मूलाधारादिस्थानसकाशात् कन्दादिस्थानपर्यन्तः स्पर्शः तद्वेलायां हि परीक्षन्ते योगिनः अमुतः स्थानात् उत्थाय अमुकस्थानं प्राप्तः प्राणः इति निश्चितमेव इत्येतादृगुक्तभावनयोद्दिष्टसुखसिद्धिरिति भावः || ६६ || अपरामाह वह्नेर्विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत् | केवलं वायुपूर्णं वा स्मरानन्दे न [स्मरानन्देन इति तदनुसारेणार्थापितः समस्तः पाठः] युज्यते || ६७ || तद्धारणया सुखधारणया वह्नौ वा विषेऽपि कठिनतरे च सुखभावनयैव चित्तं क्षिपेत् प्राणस्य वा अपानस्य च मध्येऽपि कामानन्दे सर्वविषयविस्मारके न युज्यते कामधारणायां सर्वविषयविस्मरणात् अथ वा वायुपूर्णं केवलं प्राणायामवर्जितमपि तत्रापि भेदगलनेन अभेदापत्तिरिति भावः | यस्मात् दुःखे वह्निविपादौ सुखसंधारणमेव परमार्थ इति परमार्थविदः | स्त्रीसङ्गेन विना स्त्रिया य आनन्दानुभवः स एव परमार्थ इति कथ्यते || ६७ || अपरामाह शक्तिसंगमसंक्षुब्धशक्त्यावेशावसानिकम् | यत्सुखं ब्रह्मतत्त्वस्य तत्सुखं स्वाक्यमुच्यते || ६८ || प्. २९) स्त्रीसङ्गमेन य आनन्दोऽनुभूयते तमेव स्त्रियं विना ध्यात्वा आनन्दमयो भवेदित्याद्युक्तम् | उक्तं च जायया संपरिष्वक्तो न बाह्यं वेत्ति चान्तरम् | निदर्शनं श्रुतिं प्राह मूढस्तं मन्यते परम् || न सृष्टिर्जायते लिङ्गान्न भगान्नापि रेतसः | आनन्दोच्छलिता शक्तिः सृजत्यात्मानमात्मना || इत्याद्युक्तरीत्या स्त्रीसङ्गानन्दाविर्भूतानन्दशक्तिसमावेशान्ते यत् सुखं स्त्रीपुरुषादिपर्यालोचनं स्वात्ममात्रनिष्ठं तत् स्वकम् - आत्मन एव संबन्धि नान्यत आयातं भावयेत् स्त्रीसङ्गमस्तु व्यक्तिकारणमेव इत्यादिना प्रोक्तं चान्यत्र अलं चातिविस्तरेण || ६८ || अपरामाह लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः | शक्त्यभावेऽपि देवेशि भवेदानन्दसंप्लवः || ६९ || परिचुम्बनालिङ्गनदन्तक्षतनखक्षतादिभिर्विशेषैः स्त्रीसुखस्यानुभूतस्य पूर्वं तद्ध्यानमात्रेण इदानीमपि शक्त्यभावेऽपि करसौन्दर्यादौ ध्यातमात्रे य आनदः प्रत्यक्षतयैव सर्वविषयविस्मारकः स एवानन्दोदय इति स्थितम् यतोऽनुभूते स्मरणं प्रत्यक्षतयैव प्रसिद्धमित्याचार्याः || ६९ || अपरामाह आनन्दे महति प्राप्ते दृष्टे वा बान्धवेऽचिरात् | आनन्दमुद्गतं ध्यात्वा तल्लयस्तन्मना भवेत् || ७० || प्. ३०) एवमेव बान्धवे वा सुहृदादौ चिरकालानन्तरं प्रिये वा दृष्टे उद्गतमात्रमेवानन्दं गृहीत्वा तद्भावनान्तर्मनस्कत्वेन परानन्दोदये विश्रान्तः स्यादेवेत्यर्थः | तथा च स्पन्दे अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् | धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः || इत्यादिना अभिहितमस्ति || ७० || अपरामाह जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् | भावयेद्भरितावस्थां महानन्दस्ततो भवेत् || ७१ || अयमत्राशयः - मिष्टान्नपानभोजनक्षीरादिपानाशनाभ्याम् उल्लसद्रसो य आनन्दस्तदनुभवेन आनन्दपूर्णत्वावस्थायां भावयत एकाग्रचित्तस्य परमानन्दप्राप्तिरिति सिद्धम् || ७१ || अपरामाह गीतादिविषयास्वादासमसौख्यैकतात्मनः | योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता || ७२ || गीतादिविषयस्य वंशवीणादेर्मधुरसूक्ष्मशब्दविषयस्य आस्वादात् तच्चर्वणाद्यः परमानन्दोदयः स्यात् तालक्रियाशब्दादिसाम्यं स एव परपरमानन्दोदय इति कथ्यते तत्काले शुभाशुभचिन्तादिविस्मरणादित्यलम् | अनेन च वेद्यराशेर्विस्मरणात् वेदकसत्तामात्रस्थितौ शान्तमेयमानादिव्यापृतौ महानन्दोदय इति निश्चितम् || ७२ || प्. ३१) यत्र यत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् | तत्र तत्र परानन्दस्वरूपः संप्रकाशते [स्वरूपं संप्रवर्तते इति पाठः] || ७३ || अयमत्र भावः - यत्र यत्र पञ्चेन्द्रियादिगुणेषु मनो रज्यते एतच्छुभमेतदशुभम् इत्यादिना तत्रैव शुभे वाशुभे विश्रान्तः सन् परपरानन्दमयः स्यात् इति निश्चयः | यत्र शुभे वाशुभे मनो लगति तत्समये परविमर्शविस्मृतेस्तत्रैवानन्दोदय इति निश्चयः || ७३ || अपरामाह अनागतायां निद्रायां प्रणष्टे बाह्यगोचरे | सावस्था मनसा गम्या परा देवी प्रकाशते || ७४ || निद्रा जागरणरूपोन्मग्नावस्था परावस्थेति कथ्यते सैव च स्फुटीकरणावस्था चितेरिति हि स्थितम् | तथाहि निद्रादौ जागरस्यान्ते यो भाव उपजायते | तं भावं भावयन्साक्षादक्षयानन्दमश्रुते || इत्यादिना निरूपितमस्ति || ७४ || अपरामाह तेजसा सूर्यदीपादेराकाशे शबलीकृते | दृष्टिर्निवेश्या तत्रैव स्वात्मरूपं प्रकाशते || ७५ || दिवा सूर्यकिरणप्रकाशेन रात्रौ च चन्द्रज्योत्स्नया शबलीभूतम- प्. ३२) हाकाशसंबन्ध्यूर्ध्वाधोवर्तिस्थानविशेषे गृहैकदेशवर्तिदीपप्रकाशव्याप्तकोष्ठाकाशचित्रस्थाने वा अव्यग्रमनस्कतया दृष्टिबन्धमभ्यस्यतः स्वस्वरूपचिदाकाशैकीभावेन स्वात्मरूपाभिव्यक्तिर्जायते यत्फलं चतुर्दशभुवनज्ञानं ताराव्यूहपरमनोभावाभिज्ञानं च समुत्पद्यते इति || ७५ || अपरामाह करङ्किण्या क्रोधनया भैरव्या लेलिहानया | खेचर्या दृष्टिकाले च परा व्याप्तिः [परावाप्तिरिति पाठः] प्रकाशते || ७६ || विगतचेष्टं करङ्कमात्रं शवमिव विश्वं पश्यन्त्या क्रोधव्यग्रया दृक्शक्त्या भोक्तुमेकाग्रया वा दूरमाकाशदर्शनार्थं प्रसृतया वा दृष्टिकाले परा व्याप्तिः प्रकाशत इति भावः || ७६ || अपरामाह मृद्वासने स्फिजैकेन हस्तपादौ निराश्रये | विधाय तत्प्रसङ्गेन परा पूर्णा मतिर्भवेत् || ७७ || निराश्रये यथाभवति तथा पादौ हस्तौ च कृत्वा सर्वाङ्गेषु प्रत्यंशसाकल्येन चेतयन्ती विगलिततमोरजस्का सत्त्वमयी भवेद्बुद्धिरिति तात्पर्यार्थः | मृद्वासने कोमलासने कटिप्रोथैकेन | कठिनासने उपवेशनेन हि तुङ्गकुब्जाद्युपाधेः समाधिचाञ्चल्यापत्तिरिति हि स्थितम् || ७७ || प्. ३३) अपरामाह उपविश्यासने सम्यग्बाहू कृत्वावकुञ्चितौ [कृत्वार्थकुञ्चिताविति पाठः] | कक्षव्योम्नि निराकुर्वञ्छममायाति तल्लयात् || ७९ || आसने उपविश्य बाहू कक्षव्योम्नि संकुचितौ कृत्वा तल्लयेन शममायाति || ७९ || अपरामाह स्थूलरूपस्य भावस्य स्तब्धां दृष्टिं निपात्य च | अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत् || ८० || विनोन्मेषनिमेषाभ्याम् अत एव स्तब्धां दृष्टिमवष्टभ्य मनो निराधारं कृत्वा किंचिदप्यचिन्तयन् शिवं - परमात्मैक्यतां व्रजेदिति भावः || ८० || अपरामाह मध्यजिह्वे स्फारितास्ये मध्ये निक्षिप्य चेतनाम् | होच्चारं मनसा कुर्वंस्ततः शान्ते प्रलीयते || ८१ || मध्य अन्तराल एव जिह्वा यस्य ईदृशे विस्तारिते चास्ये सति तन्मध्ये बुद्धिं निक्षिप्य मनसैव ह इत्युच्चारं कुर्वन् शान्तात्मा प्रकाशत इत्यर्थः || ८१ || प्. ३४) अपरामाह आसने शयने स्थित्वा निराधारं विभावयेत् [विभावयन् स्वदेहं क्षणात्क्षीणाशय इति पाठः | लीनं मूर्ध्नि इति (८४) पद्यादनन्तरम् उ० मू० आकाशं विमलं पश्यन्कृत्वा दृष्टिं निरन्तराम् | स्तब्धात्मा तत्क्षणाद्देवि भैरवं वपुराप्नुयात् || इति पद्यमधिकं वर्तते |] | स्वदेहे मनसि क्षीणे क्षणाद्भूताशयो भवेत् || ८२ || देहे नैव आसने देहस्यापि निराधारभावनात् शयने स्थित्वा नाहं देहो न मे देहो इति समानाधारभूतस्य नाधारादिकल्पना इत्येवं परिकल्पनेन क्षीणे मनसि गलिते वेद्यराशौ भूताशयो भूतसिद्धार्थो भवेदिति संबन्धः || ८२ || अपरामाह चलासने स्थितस्याथ शनैर्वा देहचालनात् | प्रशान्ते मानसे भावे देवि दिव्यौघमाप्नुयात् || ८३ || चलासन अश्वादौ शनैर्देहचालनं कुर्वन् प्रशान्ते च मानसे भावे दिव्यानां लोकानां परमयोगिनाम् ओघं समूहं संभूय तत्तेजस्तत्त्वमाप्नुयात् प्राप्नुयादिति भावः || ८३ || अपरामाह लीनं मूर्ध्नि वियत्सर्वं भैरवत्वेन भावयेत् | तत्सर्वं भैरवाकारं तेजस्तत्त्वं समाविशेत् || ८४ || प्. ३५) लीनं श्लिष्टं सर्वं यन्नीलपीतादि तत्सर्वं शिवमयम् इति भावयतो ब्रह्म प्रकाशत इति भावः || ८४ || अपरामाह किंजिज्ज्ञात्वा [किंचिज्ज्ञातमिति ज्ञात्वानन्तेति च पाठः] द्वैतदायि बाह्यालोकस्तमः पुनः | विश्वादि भैरवं रूपं ध्यात्वानन्तप्रकाशभृत् || ८५ || आधौ भेदमयं ध्यात्वा स्थाणुर्वा पुरुषो वा इति ततश्च बाह्यश्चासावालोकः चन्द्रसूर्यादिः ततश्च तमः एतत्सर्वं भैरवरूपं ध्यात्वा नानात्वादनन्तप्रकाशमयो भैरवो भवति || ८५ || अपरामाह एवमेव दुर्निशायां कृष्णपक्षागमे चिरम् | तैमिरं भावयेद्रूपं [भावयन्रूपमिति पाठः] भैरवं रूपमेष्यति || ८६ || मेघच्छन्ना रत्रिर्दुर्निशा तस्यामन्धतामिस्रमहातामिस्रतामिस्ररूपायां यत् कालश्यामलादि भयङ्कररूपं भैरवमुद्रितं भैरवमुद्राङ्कितं भयङ्करत्वाददृश्यं तत् भावयन् अक्षयानन्दमाप्नुयात् - तद्रूपस्य आश्चर्यकारित्वात् || ८६ || अपरामाह एवमेव निमिल्यादौ नेत्रे कृष्णाभमग्रतः | प्रसार्य भैरवं रूपं भावयेत्तन्मयो [भावयंस्तन्मय इति पाठः] भवेत् || ८७ || प्. ३६) स्वनेत्रे च निमील्य कृष्णपाक्षिकरात्र्यभावेऽपि कृष्णाभं तमोरूपं ज्ञात्वा किमेतत् इत्याश्चर्यकारि एतदेव भैरवं रूपम् एतद्रूपेण तन्मयीभावः स्यादिति || ८७ || अपरामाह यस्य यस्येन्द्रियस्यादौ [यस्य कस्येन्द्रियस्यापि इति तत्रैवात्मेति च पाठः] व्याघाताच्च निरोधतः | प्रविष्टस्याद्वये शून्ये तदैवात्मा प्रकाशते || ८८ || बाह्याधिकारनिवृत्तेरज्ञत्वात् तत एव च व्याघातात् विरुद्धसमुच्चयात् अथ च निरोधतः निरोधनाच्च अद्वये द्वयरहिते शून्ये अत एव प्रविष्टः सन् अन्तर्मुखपदाश्रयणेन आत्मा प्रकाशत इति भावः || ८८ || अपरामाह अबिन्दुमविसर्गं च अकारं जपतो महान् | उदेति देवि सहसा ज्ञानौघः परमेश्वरः || ८९ || अम् इत्यत्र अः इत्यत्र च बिन्दुविसर्गौ परित्यज्य कुम्भकस्थस्य अ इत्येवमेव केवलं जपतः परमेश्वरो ज्ञानौघ उदेति | सर्वविकल्पराहित्येन विकल्पादीन् संत्यज्य यच्छिष्यते तदेव भवतीत्यर्थः | तत्त्वमसि इत्यादिवत् || ८९ || अपरामाह सविसर्गस्य वर्णस्य विसर्गान्ते [विसर्गान्तमिति पाठः] चितिं कुरु | निराधारेण चित्तेन स्पृशेद्ब्रह्म सनातनम् || ९० || प्. ३७) पुनश्चात्र अ इत्येवमेव परित्यज्य यश्च अमित्यत्र अः इत्यत्र च (.) (ः) बिन्दुविसर्गौ परिशिष्टौ तयोरनिर्वचनीयत्वात् प्राप्ता तत्र परा निर्वृतिरिति सिद्धम् || ९० || अपरामाह व्योमाकारं स्वमात्मानं ध्यायेद्दिग्भिरनावृतम् | निराश्रया चितिः शक्तिः स्वरूपं दर्शयेत्तदा || ९१ || अहमेव परो हंसः परमात्मा परात्परः | इति व्योमाकारं स्वमात्मानं कृत्वा तथा दिग्भिर्नीलपीतादिभिरुपाधिभिर्विवर्जितं कृत्वा चितिशक्तिर्निराश्रया स्वं रूपं दर्शयेदिति भावः || ९१ || अपरामाह किंचिदङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः | तत्रैव चेतना युक्ता भैरवी निर्मला गतिः || ९२ || तीक्ष्णसूच्यादिना वा अग्निना शरीरं प्रमथ्य तत्सहनादिना या सहनशक्तिः सैव चेतना इत्यभिधीयते | अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च | इत्यादिभगवद्वाक्यस्मरणात् भैरवसारूप्याप्तिरिति भावः || ९२ || अपरामाह चित्ताद्यन्तःकृतिर्नास्ति ममान्तर्भावयेद्यदि [भावयेदितीति पाठः] | विकल्पानामभावेऽपि विकल्पैरुज्झितो भवेत् || ९३ || प्. ३८) चित्ताद्यन्तःकरणवर्गो ममान्तर्नास्ति अस्त्यपि नास्त्येव इत्येवं बाह्यविषयोपरमाद्दृढभावनस्ततो विकल्पानामभावेन विकल्पैरुज्झितस्त्यक्तः निर्विकल्पतया शुद्धचैतन्यो भवेदित्यर्थः || ९३ || अपरामाह माया विमोहिनी नाम कलायाः कलनं स्थितम् | इत्यादिधर्मं तत्त्वानां कलयन्ना पृथग्भवेत् [कलयन्न पृथगिति पाठः] || ९४ || इयं माया विमोहिनी नाम तत्त्वानां च इत्यादिधर्मं कलायाः कलनं स्थितम् इत्येवं कलयन् ना पुरुषः पृथक् भवेत् - सर्वोत्तिर्णः कूटस्थ इत्याख्यः स्यादित्यर्थः || ९४ || अपरामाह झगितीच्छां समुत्पन्नामवलोक्य शमं नयेत् | यत एव समुद्भूता ततस्तत्रैव लीयते || ९५ || एवमन्तर्मुखतया विमृश्य यत एव क्षोभमयान्मनस उत्थिता तत्रैव शमं नयेत् प्रापयेत् | तरङ्गा इव तोयेषु बुद्बुदा इव सागरे | इत्यादिवत् ऐक्यमाश्रित्य तत्सर्वं च प्रशमयय ब्रह्म संपद्यते तदा स्वयमेव || ९५ || अपरामाह यदा ममेच्छा नोत्पन्ना ज्ञानं वा कस्तदास्मि वै | तत्त्वतोऽहं तथाभूतस्तल्लीनस्तन्मना भवेत् || ९६ || प्. ३९) इच्छाज्ञानक्रियादिसन्दोहे समुत्पन्नेऽपि अहं करोमि गच्छामीत्यादिना तेन च ज्ञानं वा समुत्पन्नमपि तत्त्वतोऽहंस्वरूपं एवाहम् तस्मिंल्लीने तन्मयो भवेदिति गुरवः | तथा च स्पन्दे गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् | लब्धात्मलाभाः सततं स्युर्ज्ञस्यापरिपन्थिनः || अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः | पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि || अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये | जाग्रदेव निजं भावमचिरेणाधिगच्छति || इत्यादिना सुस्पष्टतया प्रतिपादितम् || ९६ || अपरामाह इच्छायामथवा ज्ञाने जाते चित्तं निवेशयेत् | आत्मबुद्ध्यानन्यचेतास्ततस्तत्त्वार्थदर्शनम् || ९७ || जातमात्रायामिच्छायां जातमात्रे ज्ञाने वा सति सर्वस्मिन्स्वात्मरूपदृढभावनया अनन्यचेतसस्तत्त्वात्मदर्शनं स्यादेवेति निश्चयः सर्वं खल्विदं ब्रह्म इत्यभ्यसनादिति भावः || ९७ || अपरामाह निर्निमित्तं भवेज्ज्ञानं निराधारं भ्रमात्मकम् | तत्त्वतः कस्यचिन्नैतदेवंभावी शिवः प्रिये || ९८ || भ्रममात्रान्निर्निमित्तं शुक्ताविदं रजतमित्यादिवत् भ्रममात्रस्वभावं सर्वं दृश्यजातम् अत एव च निराधारमनाश्रयात्मकम् प्. ४०) हि सर्वं चिन्मात्रम् चिद्व्यतिरिक्तस्यान्यस्याभावात् इत्येवंभावनादार्ढ्यात् शिव एव स्यादिति भावः || ९८ || अपरामाह चिद्धर्माः सर्व देहेषु विशेषो नस्ति कुत्रचित् | अतश्च तन्मयं सर्वं भावयन्भवजिज्जनः || ९९ || देवासुरनरतिर्यक्स्थावरजङ्गमादिषु मूर्तिषु चिद्धर्माः सामान्येन सन्ति न च तत्र विशेषोऽस्ति कुत्रचित् देहादेरेव विशेषोऽस्ति न तु चितेः इति भावयन् सर्वत्र चिदेव जृम्भते इत्यनुभवदार्ढ्यात् सोहमस्मीति भावयन् भवजित् दुस्तरसंसारोत्तिर्णो जनो भवति || ९९ || अपरामाह कामक्रोधलोभमोहमदमात्सर्यगोचरे | बुद्धिं निस्त्मितां कृत्वा तत्तत्त्वमवशिष्यते || १०० || कामक्रोधादिषु मात्सर्यपर्यन्तेषु बुद्धिमेकाग्रां विधाय विकारानधिगमात् निस्पन्दां कृत्वा तत्तत्त्वं चिन्मात्रबोधमवशिष्यत इति शेषः || १०० || अपरामाह इन्द्रजालमयं विश्वं न्यस्तं वा चित्रकर्मवत् | भ्रमतो ध्यायतः [भ्रमद्वा ध्यायत इति पाठः] सर्वं पश्यतश्च सुखोद्गमः || १०१ || प्. ४१) इत्येवं ज्ञानानुभवयुक्त्या निश्चितया बुद्ध्या सर्वमिदमिन्द्रजालनिभं विश्वं विभाव्य स्वस्पन्दारोहणेन सर्वमिदं भ्रमन्नपि ध्यायन्नपि पश्यन्नपि अक्षयसुखीभवति - सर्वमिदं ब्रह्म इति पश्यन् मुच्यत इत्यर्थः || १०१ || अपरामाह न चित्तं निक्षिपेद्दुःखे न सुखे वा परिक्षिपेत् | भैरवि ध्यायतां मध्ये किं तत्त्वमवशिष्यते || १०२ || सुखदुःखादिविभवे सर्वं सुखं वा दुःखमेव वेदं सर्वं विज्ञाय तदैकाग्र्यतया हे भैरवि ध्यायतां तन्मध्ये भैरवोदयः स्यादित्यर्थः || १०२ || अपरामाह विहाय निजदेहास्थां सर्वमस्मीति भावयेत् | दृढेन मनसा दृष्ट्या नान्येक्षिण्या सुखी भवेत् || १०३ || निजदेहप्रमातृतां विहाय - न देहोऽहमित्यादिना पश्चात्सर्वमिदमहमेव इति भावयन् सुखी सर्वत्र सर्वदा || १०३ || अपरामाह घटादौ यच्च विज्ञानमिच्छाद्यं वा ममान्तरे | नैव सर्वगतं जातं भावयन्निति सर्वगः [सर्वत्रामस्मीति भावयन् इति पाठः] || १०४ || प्. ४२) सदा सर्वत्र सवास्ववस्थासु यत् दृश्यमानं घटादिविज्ञानेन घटोऽयमित्यादिना तदन्तरे या चेच्छा एवं करोमीत्यादिना तत्सर्वं जातमपि किमपि न भवति निःसारत्वादिति भावयन् सर्वत्र प्रकाशस्वरूपः स्यादिति भावः || १०४ || अपरामाह ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् | योगिनां तु विशेषोऽयं [विशेषोऽस्तीति पाठः] संबन्धे सावधानता || १०५ || सर्वदेहिनां सदाशिवादिकीटान्तानाम् इदं ग्राह्यम् अयं ग्राहक इत्यादिना यो व्यवहारः स सामान्य एव सर्वदेहिनां यदेको जानाति तदपरोऽपि जानाति इत्यनेन सामान्या परंतु योगिनामयमेव विशेषः - संबन्धे ग्राह्यग्राहकस्वरूपावधारणे ग्रहीतृरूपाविस्मरणमित्यर्थः अहं स्मर्तेति सर्वदा प्रकाशस्वरूपः अन्यद्वेद्यमनित्यमसदित्युच्यते || १०५ || अपरामाह स्ववदन्यशरीरेऽपि संवित्तिमनुभावयेत् | अपेक्षां स्वशरीरस्य त्यक्त्वा व्यापी दिनैर्भवेत् || १०६ || तस्य शरीरभूतं जगदिदमिति सर्वं विभावयन् केवलं भिन्नतया स्वशरीरापेक्षां विहाय इदं मम शरीरं नास्तीतरस्मादन्यत् प्. ४३) इत्यनेन परस्मिन्सर्वस्मिन्स्वात्मसंविन्मात्रदृढभावनेन व्यापकरूपोऽसौ तद्दिनैरेव भवेदिति भावः || १०६ || अपरामाह निराधारं मनः कृत्वा विकल्पान्न विकल्पयेत् | तदात्मपरमात्मत्वे भैरवो मृगलोचने || १०७ || सर्वमेतत्त्याज्यं स्वस्वभावाध्यासरूपं स्थाणुर्वा पुरुषो वा इति##- स्वात्मनः परमात्मत्वे निष्ठां प्राप्य परमात्मनि च लीनतां संप्राप्य वा विभाव्य भैरवरूपः परमात्मैव भवतीत्यर्थः || १०७ || अपरामाह सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः | स एवाहं शैवधर्मा इति दार्ढ्याच्छिवो भवेत् || १०८ || स एवाहमहमेव सः शिवस्यायं शैव स एव धर्मो यस्य स्वातन्त्र्यादिर्मम सर्वोस्ति अनेन दृढभावनेन परमशिवताद्रूप्यं गम्यते || १०८ || अपरामाह जलस्येवोर्मयो वह्नेर्ज्वालाभङ्ग्यः प्रभा रवेः | ममैव भैरवस्यैता विश्वभङ्ग्यो विभेदिताः || १०९ || यथा जलोर्मयः जलादेव वह्नेर्वा ज्वालाः रवेर्वा प्रभाः तथा भैरवस्यैता विश्वभङ्ग्यो गमनागमनभोजनाहवनदानप्रसारणनिर्गमनादीनि सन्तीति भावयेदिति शेषः || १०९ || प्. ४४) अपरामाह भ्रान्त्वा भ्रान्त्वा शरीराणि [शरीरेणेति पाठः] त्वरितं भुवि पातनात् | क्षोभशक्तिविरामेण परा संजायते दशा || ११० || प्रदक्षिणक्रियावत् सहस्रजन्मजन्मान्तरमासाद्य मानुष्यदेवासुरतिर्यगादियोनिषु ततश्च सद्गुरुदृष्टिपातात् क्षीणशोकस्य परा दशा प्रादुर्भवति इत्यर्थः | तथैव यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् | (९ उ.) इत्यादिना स्पन्दे प्रतिपादितमस्ति || ११० || अपरामाह आधारेष्वथ वा शक्त्या ध्यानाच्चित्तलयेन [शक्त्याऽज्ञानाच्चितेति पाठः] संप्रदायं ११२ पद्यादनन्तरम् उ० मू० संकोचं कर्णयोः कृत्वा ह्यधोद्गारे तथैव च | अनच्कमहलं ध्यायन्विशेद्ब्रह्म सनातनम् || ११४ || इति पद्यमधिकमस्ति |] वा | जातशक्तिसमावेशक्षोभान्ते भैरवं वपुः || १११ || पदार्थेषु ज्ञातुमशक्यत्वात् वा ज्ञानादेरभावतो यश्चित्तस्य लयस्तेन यो जातोऽनाश्रितायां शक्तौ समावेशक्षोभस्तदन्ते भैरवं वपुर्व्यज्यत एवेत्यर्थः || १११ || अपरामाह संप्रदायमिमं भद्रे शृणु सम्यग्वदाम्यहम् | कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः || ११२ || प्. ४५) सर्वस्यास्य भेदाभेदमयस्य जगतो विस्मरणादन्तरात्मनि च दत्तदृष्टेर्योगिनो यत्र तत्र चित्तप्रकाशः स्यादेवेत्यर्थः सर्वेषूक्तवक्ष्यमाणानुशासनेष्वेतेषु चिन्मात्रावधारणचित्तैकाग्र्याभ्यसनमभिप्रेतमस्ति || ११२ || अपरामाह कूपादिके महागर्ते स्थिते परिनिरीक्षणात् [स्थित्वोपरीति पाठः] | अविकल्पमतेः सम्यक्सद्यश्चित्तलयः स्फुटम् || ११३ || यद्येवं परिस्फुरति नास्त्यत्र किमपि वेद्यावेद्यपतितं नीलपीतादि परं तु घोरतरं भैरवं वपुरत्राभासमानं भासत इति तात्पर्यार्थः || ११३ || अपरामाह यत्र यत्र मनो याति बाह्ये वाभ्यन्तरे प्रिये | तत्र तत्र शिवावस्था व्यापकत्वात्क्व यास्यति || ११४ || यत्र यत्र मनो याति स्वतश्चञ्चलमस्थिरम् | ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् || इत्यादिभगवन्मुखोक्त्या यत्र यत्र नीलपीतादौ मनो याति अन्तरात्मतया तत्र तत्र शिवावस्था इति निश्चयाद्भैरवाभिव्यक्तिः संजायते | तथा च श्रीस्पन्दे प्. ४६) यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् | तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः || तेन शब्दार्थचिन्तासु न सावस्था न या शिवः | भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः || इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् | संपश्यन्सततं युक्तो जीवन्मुक्तो न संशयः || (२८-२९-३०) इत्यादिना प्रतिपादितमस्ति || ११४ || अपरामाह यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः | तस्य तन्मात्रधर्मित्वाच्चिल्लयाद्भरितात्मता || ११५ || यत्र यत्र शिवावस्थाध्यानेन चैतन्यं व्यज्यते विभोः तस्य च तन्मात्रधर्मत्वात् दर्पणप्रतिबिम्बिताभासवैचित्र्येण चैतन्यमात्रस्वभावत्वात् चितौ लयाद्विश्रान्तेर्भरितात्मता अहमेव विश्वमयो महच्चैतन्यभरित इत्यनुभूततात्त्वकावस्थः संपद्यते आश्यानीभूतहिमघृतादिवत् जलमयत्वापत्तेरिति भावः || ११५ || अपरामाह क्षुताद्यन्ते भये शोके गह्वरे वा रणद्रुते [रणाद्द्रुते सत्तामयी दशा इति च पाठः] | कुतूहले क्षुधाद्यन्ते ब्रह्मसत्ता समीपगा || ११६ || अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् | धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः || (२२) प्. ४७) इत्यादिस्पन्दोक्तदिशा निर्दिष्टस्य भैरवरूपस्यामर्शनात् क्षुतादिषु गुरुमुखश्रुतयुक्त्या विभाव्य कृतकृत्यो भवत्येवेत्यर्थः | एतच्च तन्त्रालोकादौ वितत्य निर्णीतमस्ति तत एवावधार्यम् | ग्रन्थविस्तरभयान्नेह प्रतन्यते तद्दिङ्मात्रेण उदाहृतमिति || ११६ || अपरामाह वस्तुषु स्मर्यमाणेषु दृष्टे देशे मनस्त्यजेत् | स्वशरीरं निराधारं ततः प्रसरति [कृत्वा प्रसरतीति पाठः] प्रभुः || ११७ || स्मरणादिशक्त्या दृष्टे देशेऽनुभवशक्तौ स्वाधारभूतायां मनस्त्यजेत् ऐकाग्र्येणादद्यात् स्वशरीरं च निराधारमहिकञ्चुकवदसङ्गं विभातयेत् ततः प्रादुर्भवति स्वयमेव प्रभुरिति निश्चयः | अत्रायं भावः - अनुभवात् स्मरणादौ सूत्र इव मणिगणः प्रोतश्चैतन्यप्रसर इति सिद्धम् अतस्तमेव ध्यायेदिति शेषः || ११७ || अपरामाह क्वचिद्वस्तुनि विन्यस्य शनैर्दृष्टिं निवर्तयेत् | तज्ज्ञानं चित्तसहितं देवि शून्यालयो भवेत् || ११८ || कुत्रचित् दृष्टिं कृत्वा घटोऽयमिति तद्वस्त्वनुभवं तद्वासनायुक्तं चित्ते निधाय शून्यमतिर्भवेत् - ब्रह्म संपद्यत इत्यर्थः || ११८ || अपरामाह भक्युद्रेकाद्विरक्तस्य यादृशी जायते मतिः | सा शक्तिः शाङ्करी नित्यं भावयेत्तां ततः शिवः || ११९ || प्. ४८) भक्त्यतिशयेन विरक्तस्य शान्तचित्तस्य चित्ते चित्तसमाधानेन यादृशी मतिर्जायते सा शांकरी शक्तिरिति गीयते इति तामेव भावयेत् येन तन्मयः स्यात् || ११९ || अपरामाह वस्त्वन्तरे वेद्यमाने शनैर्वस्तुषु शून्यता | तामेव मनसा ध्यात्वा विचित्तोऽपि [विदितोऽपीति पाठः] प्रशाम्यति || १२० || अयमत्राशयः - एकस्मिन्वस्तुनि चित्स्वरूपत्वेन ज्ञायमाने अन्यत्र चाभावबुद्धिः - सर्वस्यास्य जगत् एकरूपत्वापत्तेः तस्मात् एकस्यैव वस्तुनोऽपि चित्स्वभावात् सर्वस्वरूपप्रसंगापत्तेरिति तत्सर्ववेद्यशून्यतां ध्यात्वा विचित्रतया संकल्पविकल्पराहित्येन मुक्तः स्यादिति निश्चयः || १२० || अपरामाह किंचिज्ञैर्या स्मृता शुद्धिः सा शुद्धिः शंभुदर्शने | न शुचिर्ह्यशुचिस्तस्मान्न्रिविकल्पः शिवो भवेत् || १२१ || धर्मशास्त्रविद्भिः कृत्वालं पादशौचं विमलमथ जलं त्रिः पिबेत् | इत्यादिना शुद्धिः कथिता सा चैव शुद्धिः निर्विकल्पसमाधिस्थस्य न शुचिर्नाप्यशुचिरभेदापत्तेरिति पारमार्थिकपरमार्थः | तथा च प्. ४९) तनुं त्यजतु काश्यां वा श्वपचस्य गृहेऽथ वा | तज्ज्ञः कलङ्कं नाप्नोति हेम पङ्कगतं यथा || इत्यादिना स्मृतमस्ति || १२१ || अपरामाह सर्वत्र भैरवो भावः सामान्येष्वपि गोचरः | न च तद्व्यतिरेकेण परोऽस्तीत्यद्वया गतिः || १२२ || दर्पणबिम्बे यद्वन्नगरग्रामादि चित्रमविभागि | भाति विभागेनैव च परस्परं दर्पणादपि च || (प० सा० १२) इत्यादिना सर्वत्र सर्वदा बाह्याभन्तरेषु पदार्थेषु भैरवो भावः स्फुट इति न च तद्व्यतिरिक्तं किंचित् इति संबोधाप्त्या द्वयातीता गतिरद्वैतज्ञानं स्यात् तद्व्यतिरेके हि प्रकाशमानत्वाभावापत्तेः || १२२ || अपरामाह समः शत्रौ च मित्रेच समो मानापमानयोः | ब्रह्मणः परिपूर्णत्वादिति ज्ञात्वा सुखी भवेत् || १२३ || यच्च श्रीभगवता गीतं विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि | शुनि चैव श्वपाके च पण्डिताः समदर्शिनः || प्. ५०) तथा च शान्तरसादिनिदर्शने अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्टे वा बलवति रिपौ वा सुहृदि वा | तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः कदा पुण्येऽरण्ये शिवशिवशिवेति प्रलपतः || पुनश्च सिद्धान्तमुक्तावल्यां स्नातं तेन समस्ततीर्थसलिले दत्ता च सर्वावनि- र्यज्ञानां च कृतं सहस्रमखिला देवाश्च संतर्पिताः | संसाराच्च समुद्धृताः स्वपितरस्त्रैलोक्यपूज्योऽप्यसौ यस्य ब्रह्मविचारणे क्षणमपि स्थैर्य मनः प्राप्नुयात् || इत्येवं इच्छाज्ञानक्रियोल्लासं चिन्मयमेव विश्वप्रपञ्चं विज्ञाय सुखी भवतीति भावः || १२३ || एवं सति अपरामाह न द्वेषं भावयेत्क्वापि न रागं भावयेत्क्वचित् | रागद्वेषविनिर्मुक्तौ मध्ये ब्रह्म प्रसर्पति || १२४ || सर्पादौ द्वेषं हारादौ च रागः तद्विनिर्मुक्तस्वभावापत्तौ ब्रह्म संपद्यत इति भावः || १२४ || अपरामाह यदवेद्यं यदग्राह्यं यच्छून्यं यदभावगम् | तत्सर्वं भैरवं भाव्यं तदन्ते बोधसंभवः || १२५ || यतो वाचो निवर्तन्ते ह्यप्राप्य मनसा सह | आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चन || प्. ५१) न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः | तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति || आनन्दात्खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दं प्रयन्ति अभिसंविशन्ति | (तै० ३०३-६) इत्यादिना प्रतिपादितं सर्वमेतद्ब्रह्मैव भवति इति दृढानुभवबलात् सर्वत्र भैरवस्वरूपबोधवान् भैरव एव भवति - ब्रह्म संपद्यते इत्यर्थः || १२५ || अपरामाह नित्ये निराश्रये शून्ये व्यापके कलनोज्झिते | बाह्याकाशे मनः कृत्वा निराकाशे समाविशेत् || १२६ || इत्येवं नित्यत्वव्यापकत्वानुभूते बाह्याकाश एव शून्यधारणातिशयेन तदभ्यासातिशयाच्छून्यातिशून्यभूतं यद्धाम तत्रैव समाविशतीति भावः || १२६ || अपरामाह यत्र यत्र मनो याति तत्तत्तेनैव तत्क्षणम् | परित्यज्यानवस्थित्या निस्तरङ्गस्ततो भवेत् || १२७ || प्. ५२) अविकल्पसंवेदनरूपेण मनसा तत्क्षणे तत्सर्वं परित्यज्य निरालम्बनप्राप्तियुक्त्या परभैरवस्वरूपवान् भवेदिति भावः || १२७ || अपरामाह भिया सर्वं रवयति सर्वगो व्यापकोऽखिले | इति भैरवशब्दस्य सन्ततोच्चारणाच्छिवः || १२८ || विश्वमिदमखिलं भिया रवयति विमृशति अथ वा अवति रक्षति नीलानीलसुखासुखवेद्यराशेः सर्वस्याहमिति विमर्शनात् - बाह्यान्तरे सर्वत्र अहमस्मि इत्यनुभवदार्ढ्याधिगमाच्छिवः संपद्यते | तथा च न सावस्था न या शिवः इत्यादिना एतदाम्नातमस्ति || १२८ || अपरामाह अहं मम मयेत्यादिप्रतिपत्तिप्रसङ्गतः | निराधारे मनो याति तद्ध्यानप्रेरणाच्छमी || १२९ || अहमिदं मम मया इत्यादिप्रसङ्गेषु निराधारं मनः कृत्वा नेदं नानास्ति किंचित् इति इत्यनेन तद्ध्यानाभ्यसनेन प्रेरणात् अहंविमर्शबलाधिगमात् शमी शान्तद्वन्द्वोऽवाप्तपरनिर्वाणो जायत इत्यर्थः || १२९ || अपरामाह नित्यो विभुर्निराधारो व्यापकश्चाखिलाधिपः | शब्दान्प्रतिक्षणं ध्यायन्प्रकृतार्थानुरूपतः || १३० || प्. ५३) विभुः सर्वज्ञः सर्वत्र शिव एव इत्येवं प्रतिक्षणं ध्यायन् प्रकृतार्थानुरूपतया पदार्थदृष्ट्या कृतकृत्यो भवत्येवेत्यर्थः जानामि करोमि इत्यत्रैव मुक्तस्वभावः स्यादिति भावः | तथा च स्पन्दे गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् | लब्धात्मलाभाः सततं स्युर्ज्ञस्यापरिपन्थिनः || १९ || अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः | पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि || २० || अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये | जाग्रदेव निजं भावमचिरेणाधिगच्छति || २१ || इत्यादिना निर्णीतमस्ति || १३० || अपरामाह अतत्त्वमिन्द्रजालाभमिदं सर्वं व्यवस्थितम् | किं तत्त्वमिन्द्रजालस्य चेति दार्ढ्याच्छमं व्रजेत् || १३१ || अतत्त्वमसारम् इन्द्रजालवदिति प्रतीत्या - सर्वमिदमिन्द्रजालतुल्यमेव तत्परं सद्वस्तु व्यपदेश्यं प्रमातृतत्त्वमिति भावनादार्ढ्येन तत्त्वविदः निर्वाणपदावाप्तिर्भवेदिति भावः || १३१ || अपरामाह आत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया | ज्ञानायत्ता बहिर्भावा अतः शून्यमिदं जगत् || १३२ || प्. ५४) ज्ञानक्रियादिशक्त्ययोगाज्ज्ञेयादिकल्पना कुतः न कुतश्चन | अतो निर्विकल्पात्मकस्य निर्विकल्पमेवेदं जगत्प्रतिभासते इति भावः | तथाच मालिनीविजये या सा शक्तिर्जगद्धातुः कथिता समवायिनी | इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते || सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु | एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् || ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते | एवं भवत्विदं सर्वमिति कार्योन्मुखी यदा || जाता तदैव तत्तद्वत्कुर्वत्यत्र क्रिया मता | एवं यथा द्विरूपैव पुनर्भेदैरनेकधा || अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी | तत्र तावत्समापन्ना मातृभावं विभिद्यते || द्विधा च नवधा भेदैः पञ्चाशद्धा च मालिनी | इत्यादिना प्रकाशितोऽयमर्थः || १३२ || अपरामाह न मे बन्धो न मे मोक्षो बालस्यैता विभीषिकाः | प्रतिबिम्बमिदं बुद्धेर्जलेष्विव विवस्वतः || १३३ || मायापरिग्रहवशाद्बोधो मलिनः पुमान्पशुर्भवति | (प० सा० १६) इत्यादिना निर्णीतोऽयमर्थः परमार्थसारे सुस्पष्टः | अथ च तत्रैव गच्छति गच्छति जल इव हिमकरबिम्बं स्थिते स्थितिं याति | तनुकरणभुवनवर्गे तथायमात्मा महेशानः || (प० सा० ७) प्. ५५) इत्यादिना एतत्सर्वं बुद्धेः प्रतिबिम्बितमेव सूर्याचन्द्रमसोरिव जलप्रतिबिम्बादौ | इत्थं दृष्टान्तदार्स्टान्तिकयोर्योज्यमिति भावः || १३३ || अपरामाह इन्द्रियद्वारकं सर्वं सुखदुःखादिसंगतम् | इतीन्द्रियाणि संत्यज्य स्वस्थः स्वात्मनि वर्तते || १३४ || द्रष्टा दृश्यं दर्शनं च इति भेदकल्पनात्यागादात्मनि स्वस्थः - स्वात्मैव भवति इत्यर्थः || १३४ || अपरामाह ज्ञानप्रकाशकं सर्वमात्मा चैव प्रकाशकः | एवमेकस्वभावत्वाज्ज्ञानं ज्ञेये विभाव्यते || १३५ || प्रकाशमानं न पृथक्प्रकाशात् स च प्रकाशो न पृथग्विमर्शात् | नान्यो विमर्शोऽहमिति स्वरूपा- दहं विमर्शोऽस्मि चिदेकरूपः || इति नीत्या न किमपि प्रकाशाद्व्यतिरिक्तं भाति वर्तते वा ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवम् | इत्यादिलक्षणेन च सर्वं चिन्मयमेव विभाव्य यज्ज्ञानं तदेव ज्ञेयादि इत्यादि तत्त्वज्ञाननिष्ठः संभवति इति भावः || १३५ || अपरामाह मानसं चेतना शक्तिरात्मा चेति चतुष्टयम् | यदा प्रिये परिक्षीणं तदा तद्भैरवं वपुः || १३६ || प्. ५६) मानसं मनः चेतना बुद्धिः शक्तिः प्राणशक्तिः आत्मा च एतदुपाधिमयो जीव इति कथ्यते इत्येतच्चतुष्टयमुपाधिमयं मायीयोपाधिगलितं यदा क्षीणं - यदा क्षीयते तदा चिच्छेषतया हिमनिर्मुक्तभास्करवत् प्रकाशमानः प्रकाश एवावशिष्यते - इति दृढानुभवसमधिगमात् साक्षाद्भैरव एव भवतीति भावः || १३६ || अपरामाह निस्तरङ्गोपदेशानां शतमुक्तं समासतः | द्वादशाभ्यधिकं देवि यज्ज्ञात्वा ज्ञानविज्जनः || १३७ || इत्थं मया धारणोपदेशानां द्वादशाभ्यधिकं शतमुक्तम् एतदेव विज्ञाय साक्स्.आद्भैरवसारूप्यमेवैतीति तात्पर्यम् || १३७ || अत्र चैकतमे युक्तो जायते भैरवः स्वयम् | वाचा करोति कर्माणि शापानुग्रहकारकः || १३८ || एतासु धारणास्वन्यतमनिष्ठावान् मायीयोपाधिसंव्लितवेद्यराशिपतितेन्द्रियगणोऽपि वाचा कथनमात्रेण शापानुग्रहादिकर्माणि करोति तत्रापि तथैव समाध्येकीभावनया तत्तदुज्झित्य निस्तरङ्गप्रकाशवान् भैरवः साक्षाद्भवतीति निश्चयः || १३८ || अजरामरतामेति सोऽणिमादिगुणैर्युतः | योगिनीनां प्रभुर्देवि सर्वमेलापकारकः || १३९ || अपाम सोमममूता अभूम इत्यादिनोक्तधारणाभ्यासदार्ढ्येन अजरामरतां संप्राप्य विज्ञाना- प्. ५७) त्मकसोमपानात् योगिनीनां - ज्ञानक्रियानन्दादिशक्तीनां प्रभुः स्वामी सर्वत्र मेलापकृत् सकलस्यास्य वेद्यवेदकादिराशेः खिलीकृतस्वभावोऽत्यन्तनिर्मलचिद्वपुरद्वैतप्रकाशमयः परमात्मा भैरवः संपद्यते इति तात्पर्यार्थः || १३९ || जीवन्नपि विमुक्तोऽसौ कुर्वन्नपि न लिप्यते | जीवन्मुक्त एवासौ पश्यन्नपि शृण्वन्नपि जिघ्रन्नपि - इत्यादिक्रियाः कुर्वन्न लिप्यते | तथा च भगवान् पश्यञ्छृण्वन्स्पृशन् जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् | प्रलपन्विसृजन्गृह्नन्नुन्मिषन्निमिषन्नपि | (५-८) ब्रह्मण्यादाय कर्माणि सङ्गं त्यक्त्वा करोति यः | लिप्यते न स पापेन पद्मपत्रमिवाम्भसा | (५-१०) इत्यादिना समादिशति | तथा च स्पन्दे गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् | लब्धात्मलाभाः सततं स्युर्ज्ञस्यापरिपन्थिनः || (१९) इत्यादिना निर्णीतमस्ति | तस्मात् कर्माणि कुर्वन्नपि च न लिप्यते इति सिद्धम् || ताद्रूप्येण भेदं संदिहानेव पुनरपि पृच्छन्ती श्रीभैरवी उवाच इदं यदि वपुर्देव परायाश्च महेश्वर || १४० || एवमुक्त्वव्यवस्थायां जप्यते को जपश्च कः | ध्यायते को महादेव पूज्यते कश्च तृप्यति || १४१ || प्. ५८) हूयते कस्य वा होमो यागः कस्य च किं कथम् | स्पष्टमेतत् || उक्तानुयोगनिर्धारणां समादिशन् श्रीभैरव उवाच एषात्र प्रक्रिया बाह्या स्थूलेत्येव मृगेक्षणे || १४२ || भूयो भूयः परे भावे भावना भाव्यते हि या | प्रक्रिया बाह्या - जपपाठतीर्थाटनादिक्रिया परे तत्त्वे बाह्येति कथ्यते || जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः || १४३ || ध्यानं या निश्चला बुद्धिर्निर्विकारा निराश्रया | सोऽहं ब्रह्मेति शब्दस्य अनाहताख्यस्य श्रवणाज्जपः ईदृङ्मन्त्रात्मतया जपाङ्गश्च मन्त्रः वेद्यावेद्यपतितापि समाधानबलान्निवातदीपवद्या निश्चला बुद्धिस्तद्ध्यानमिति कथ्यते अत एव निर्विकारा निराश्रया चेति || न तु ध्यानं शरीरस्य मुखहस्तादिकल्पना || १४४ || पूजा नाम न पुष्पाद्येर्या मतिः क्रियते दृढा | निविकल्पे परे व्योम्नि सा पूजा ह्यादराल्लयः || १४५ || प्. ५९) परे व्योम्नि परचिदाकाशे लयः विश्रान्तिरेव तत्त्वतः पूजेति भावः || १४५ || अत्रैकतमयुक्तिस्थे योत्पद्येत दिनाद्दिनम् | भरिताकारता सात्र तृप्तिरत्यन्तपूर्णता || १४६ || अत्र प्रोक्तधारणासु एकतमयुक्तिस्थे सिद्धसमाधानदार्ढ्ये योगिनि उत्तरोत्तरं निर्विकल्पसमाधिरसास्वादाद्या पूर्णस्वात्मस्वरूपोपलब्धिपूर्णता सा तृप्तिरित्यर्थः || १४६ || महाशून्यालये वह्नौ भूतादिविषयादिकम् | हूयते मनसा सार्धं स होमश्चेतना स्रुचा || १४७ || महाशून्यालये शून्यातिशून्यरूपे परभैरवस्वरूपे वह्नौ भूतेन्द्रियतत्त्वादिरूपं सर्वं जगत् संकल्पविकल्पात्मकं विभागकल्पनाहेतुना मनसा सह यत्र चैतनैव स्रुक् तया हूयते स होमस्तत्त्वत इति || १४७ || यागोऽत्र परमेशानि तुष्टिरानन्दलक्षणा | क्षपणात्सर्वपाशानां त्राणात्सर्वस्य पार्वति || १४८ || रुद्रशक्तिसमावेशस्तत्क्षेत्रं भावना परा | उक्तसमाधानोत्थानन्देन तुष्टिरेव यागो देवपूजा पाशक्षपणभवत्राणधर्मत्वादनाश्रितशक्त्यावेश एव क्षेत्रं न च पुनः कुरुक्षेत्रधर्मक्षेत्रादिगमनादि | रुद्रशक्तिसमावेशः - सर्वज्ञत्वादिषटशक्तिप्रादुर्भावश्चेति || १४८ || प्. ६०) अन्यथा तस्य तत्त्वस्य का पूजा कश्च तृप्यति || १४९ || प्रकारान्तरेणाद्वैतसत्तत्त्वस्य पूजनतर्पणादिकर्म व्यतिरिक्तं न संभवतीति भावः || १४९ || सदाचारेषु मुख्यतयानुष्ठेयं स्नानमपि निर्दिशति स्वतन्त्रानन्दचिन्मात्रसारः स्वात्मा हि सर्वतः | आवेशनं तत्स्वरूपे स्वात्मनः स्नानमीरितम् || १५० || निगदितधारणाभ्यासेनाद्वैतस्वात्मस्वरूपस्य स्वतन्त्रानन्दचिन्मात्रसारतयानुभवात्तत्स्वरूपे लयभावनैव मुख्यं स्नानमित्यर्थः || १५० || यैरेव पूज्यते द्रव्यैस्तर्प्यते वा परापरः | यश्चैव पूजकः सर्वः स एवैकः क्व पूजनम् || १५१ || यैरेव द्रव्यैः कुसुमादिभिः पूज्यते क्षीरखण्डादिभिर्वा तर्प्यते परापर इति परादेव्या सहितः परः भैरवः इति यश्चैव पूजकः स एव पूज्य इत्येने न तत्त्वज्ञानेन क्व पूजनम् स्थूलमार्गेण यत् सर्वस्य पूज्यपूजादेस्तदेकस्वरूपतया क्वापि भिन्नता नेति भावः || ५१ || व्रजेत्प्राणो विशेज्जीव इच्छया कुटिलाकृतिः | दीर्घात्मा सा महादेवी परं क्षेत्रं परात्परा || १५२ || प्राणप्रवेशनसमये अपानस्य संघट्टनात् हृदयादौ | अस्य पद्यस्य विस्तृतो रहस्यार्थस्तन्त्रालोकादौ निगदितस्तत एवावधार्यः तत्रापि प्. ६१) गुरुमुखत एव समाधेयतया नास्माभिरिह वितानित इति क्षन्तव्यम् || १५२ || अस्यामनुचरंस्तिष्ठन्महानन्दमयेऽध्वरे | तया देव्या समाविष्टः परं भैरवमाप्नुयात् || १५३ || षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः | हंस-हंसेति-मन्त्रेण जीवो जपति नित्यशः || ५४ || जपो देव्याः समुद्दिष्टः प्राणस्यान्ते सुदुर्लभः | प्राणस्यान्ते पर्यवसानावस्थायाम् || इत्येतत्कथितं देवि परमामृतमुत्तमम् || १५५ || एतच्च नैव कस्यापि प्रकाश्यं तु कदाचन | परशिष्ये खले क्रूरे चाभक्ते गुरुपादयोः || १५६ || निर्विकल्पमतीनां तु वीराणामुन्नतात्मनाम् | निर्विकल्पमतीनां वीराणां च्छिन्नसंशयानाम् उन्नतात्मनां शुद्धविद्याप्रधानमायोत्तीर्णानाम् || भक्तानां गुरुवर्गस्य दातव्यं निर्विशङ्कया || १५७ || दिव्यौघ-सिद्धौघ-मानवौघादिगुरुपङ्क्तिभक्तानाम् प्रदेयमेतद्रहस्यज्ञानमिति || १५७ || ग्रामं राज्यं पुरं देशं पुत्रदाराकुटुम्बकम् | सर्वमेतत्परित्यज्य ग्राह्यमेतन्मृगेक्षणे || १५८ || प्. ६२) किमेभिरस्थिरैर्देवि स्थिरं परमिदं धनम् | प्राणा अपि प्रदादव्या न देयं परमामृतम् || १५९ || राज्याद्यस्थिराननुगामिद्रव्यसंपत्त्यागेनैतदक्षयमनुवर्तमानमनुत्तरसु खफलं स्थिरधनं संग्राह्यं यत्सर्वथादेयं निर्दिष्टापात्रेभ्य इति || १५८-१५९ || श्रीभैरवी देव देव महादेव परितृप्तास्मि शंकर | रुद्रयामलतन्त्रस्य सारमद्यावधारितम् || १६० || सर्वशक्तिप्रभेदानां हृदयं ज्ञातमद्य च | इत्युक्त्वानन्दिता देवी कण्ठे लग्ना शिवस्य तु || १६१ || इत्येतानि पद्यानि स्पष्टव्याख्यानानि तस्मादलं विवरणेन || १६०-१६१ || इति श्री विज्ञानभैरवं नाम योगशास्त्रं समाप्तम् | प्. ६३) श्रीविद्यानुग्रहावाप्तप्रेक्षालेशस्त्रिकागमान् | आलोड्यालोच्य तत्तत्त्वसंग्रहार्थं सुविस्तृतम् || १ || विज्ञानभैरवे गूढपथे पदप्रबोधिनीम् | दुर्ध्वान्तभवदुःश्वभ्रविभ्रंशात्पालनोदिताम् || २ || वेदसप्तर्षिवेदान्त्ययुगाब्दमधुपक्षतौ | विज्ञानकौमुदीमेतां भट्टानन्दो व्यकासयत् || ३ || समाप्तेयं विज्ञानकौमुदी नाम विज्ञानभैरवटीका | कृतिस्तत्रभवत्काश्मीरिकभट्टारकानन्दकस्य || सद्विद्यानां संश्रय ग्रन्थविद्वद्- व्यूहे ह्रासं कालवृत्त्योपयाते | तत्तत्सद्धर्मोद्दिधीर्षैकतान- सत्प्रेक्षौजःशालिना कर्मवृत्त्यै || १ || श्रीमत्कश्मीराधिराजेन मुख्यै- र्धर्मोद्युक्तैर्मन्त्रिभिः स्वैर्विवेच्य | प्रत्यष्ठापि ज्ञानविज्ञानगर्भ- ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः || २ || प्. ६४) तत्राजीवं निर्विशद्भिर्मुकुन्द- रामाध्यक्षत्वाश्रितैः सद्भिरेषः | पूर्त्या शुद्ध्या व्याख्यया संस्कृतः स्तात् पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् || ३ || (तिलकम्) श्रीस्वात्मशिवार्पणमस्तु || ########### END OF FILE #######